________________
२३६
सटीकजैनतर्कभाषायां नामस्थापनाद्रव्येषु वृत्त्यविशेषात् सङ्केतविशेषवृत्तेः प्रवर्तनस्य साधारण्यात् ।
___ वृत्त्यविशेषमेवोपपादयति-तथाहीति । तत्र प्रथमं नामनिक्षेपस्य वृत्त्यविशेषं दर्शयतिनामेति । तावदिति वाक्यालङ्कारे । वर्त्तते-प्रवर्तते-इन्द्रनाम्ना नामेन्द्रस्थापनेन्द्रद्रव्येन्द्राणां त्रयाणामपि व्यपदेशात् । यद्यपि भावेन्द्रस्याऽपि तेन व्यपदेशः, तथापीन्दनादिक्रियानुभूतियुक्तत्वस्याऽन्यत्राऽवर्तमानस्य तत्रैव भावतो, नामादितो वैलक्षण्यस्य योगादस्तु पृथक्त्वमित्यभिसन्धिः । स्थापनायाः त्रिषु नामादिष्वविशेषवृत्ति दर्शयति-भावार्थेति । भावस्यभावार्थस्य । द्रव्यनिक्षेपस्य त्रिष्वविशेषवृत्तिमुपदर्शयति-द्रव्यमपीति । कथं वर्त्तते इत्यपेक्षायामाह-द्रव्यस्यैवेति ।
तथा चैकेन नामनिक्षेपेण स्थापनानिक्षेपेण द्रव्यनिक्षेपेण वा त्रयाणां निक्षेपाणां विरुद्धधर्माध्यासाभावतः सङ्ग्रहसम्भवाद् निक्षेपद्वयमेव वक्तव्यम्, न निक्षेपचतुष्टयमिति प्रश्नयिता स्वपक्षमुपसंहरति-इति विरुद्धेति । एषां नामस्थापनाद्रव्याणाम् ।।
'अणुरपि विशेषः [भेद ?]प्रतिपत्तिकर' इति न्यायाद् भावार्थशून्यत्वरूपधर्मेण त्रयाणामविशेषेऽपि रूपान्तरेणाऽन्योन्यव्यावृत्तेनाऽसाधारणेन त्रयाणां भेदसम्भवात् चतुर्धा विभजनं युक्तमेवेति समाधत्ते
__न, अनेन रूपेण विरुद्धधर्माध्यासाभावेऽपि, रूपान्तरेण विरुद्धधर्माध्यासात् तद्भेदोपपत्तेः । तथाहि-नामद्रव्याभ्यां स्थापना तावदाकाराभिप्रायबुद्धिक्रियाफलदर्शनाद् भिद्यते । यथा हि स्थापनेन्द्रे लोचनसहस्राद्याकारः, स्थापनाकर्तुश्च सद्भूतेन्द्राभिप्रायो, द्रष्टश्च तदाकारदर्शनादिन्द्रादिबुद्धिः, भक्तिपरिणतबुद्धीनां नमस्करणादिक्रिया, तत्फलं च पुत्रोत्पत्त्यादिकं संवीक्ष्यते, न तथा नामेन्द्रे द्रव्येन्द्रे चेति ताभ्यां तस्य भेदः।।
अनेन रूपेण-भावार्थशून्यत्वादिना, रूपान्तरेण=अनन्तरवक्ष्यमाणधर्मेण, तद्भेदोपपत्ते:-नामादित्रयभेदसम्भवात् ।
नामादित्रयाणां भेदमेव भावयति-तथाहीति । 'स्थापना-नामद्रव्येन्द्राभ्यां भिद्यतेआकाराभिप्रायबुद्धिक्रियाफलदर्शना'दिति योजनयाऽत्राऽनुमानप्रयोगः स्पष्टं प्रतिभासते । आकारश्चाऽभिप्रायश्च बुद्धिश्च क्रिया च फलं चेत्याकाराभिप्रायबुद्धिक्रियाफलानि, तेषां दर्शनादित्ययं हेतुः स्थापनायां वर्तते, नामद्रव्ययोश्च न वर्तते इति भवति विरुद्धधर्मस्वरूपत्वाद् भेदलक्षणसाध्याविनाभूत इत्युपपादयितुमाकारादीनां स्थापनायां सत्त्वं नामद्रव्ययोश्चाऽसत्त्वमुपदर्शयति-यथाहीति । तदाकारदर्शनात्-प्रतिमागतस्य लोचनसहस्रादिविरचनाविशेषलक्षणमुख्येन्द्रशरीरसंस्थानसदृशसंस्थानदर्शनात् । तत्फलं च-नमस्करणक्रियाफलं च । जिनप्रति