________________
निक्षेपविशेषनिरूपणम्
. २३५
विवक्षितक्रियानुभूतिविशिष्टं स्वतत्त्वं यद् निक्षिप्यते स भावनिक्षेपः । यथा इन्दनक्रियापरिणतो भावेन्द्र इति ।
अत्र सेत्यन्तं लक्षणम्, भावनिक्षेप इति लक्ष्यम् । विवक्षिता = वक्तुर्विवक्षिता या इन्दनादिलक्षणा क्रिया, तस्या अनुभवनम् = अनुभूतिः, तया विशिष्टं युक्तं विवक्षितक्रियानुभूतिविशिष्टम् स्वतत्त्वम् - इन्द्रादिस्वरूपवस्तुतत्त्वम्, इन्द्रादिशब्देन स्वर्गाधिपत्यादिलक्षणैश्वर्याद्यभिधानात्, तस्य तत्र घटनाद् भवति तदेवेन्द्रादिशब्दस्य वाच्यतत्त्वं पारमार्थिकपदार्थः, एवम्भूतं यद् निक्षिप्यते = ' अयमिन्द्र' इत्येवंरूपेणेन्द्रादिशब्दवाच्यतया स्थाप्यते स इन्द्रादिर्भावनिक्षेपो भावेन्द्र इत्यर्थः । उदाहरति यथेति ।
ननु भवनं=विवक्षितक्रियानुभूतिविशिष्टतया परिणमनं भाव इति व्युत्पत्तिः परमार्थतः शब्दवाच्यं घटते इति तत्र भावनिक्षेपो नाम एको निक्षेपोऽस्तु तद्भिन्नेषु तु नामादिषु त्रिषु निक्षेपेषु भाववियुतेषु परस्परार्थानुगतिमत्सु विरुद्धधर्माध्यासाभावादैक्यमेव युक्तमिति द्विधैव निक्षेपविभजनं युक्तं न चतुर्धेति परः प्रत्यवतिष्ठते
ननु भाववर्जितानां नामादीनां कः प्रतिविशेषः ? - त्रिष्वपि वृत्त्यविशेषात् । तथाहि-नाम तावद् नामवति पदार्थे स्थापनायां द्रव्ये चाऽविशेषेण वर्त्तते । भावार्थशून्यत्वं स्थापनारूपमपि त्रिष्वपि समानं त्रिष्वपि भावस्याऽभावात् । द्रव्यमपि नामस्थापनाद्रव्येषु वर्त्तते एव- द्रव्यस्यैव नामस्थापनाकरणात्, द्रव्यस्य द्रव्ये सुतरां वृत्तेश्चेति विरुद्धधर्माध्यासाभावाद् नैषां भेदो युक्त इति चेत्,
नामादीनामित्यत्रादिपदात् स्थापनाद्रव्ययोः परिग्रहः । प्रतिविशेषः = भेदः । त्रिष्वपि =
'विवक्षित'
44
'भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियाऽनुभवात् ॥” इति ।
"अत्रायमर्थः - भवनं विवक्षितरूपेण परिणमनं भावः, अथवा भवति विवक्षितरूपेण संपद्यत इति भावः । कः पुनरयम् ? इत्याह- वक्तुर्विवक्षिता इन्दन - ज्वलन-जीवनादिका या क्रिया तस्या अनुभूतिरनुभवनं तया युक्तो विवक्षितक्रियानुभूतियुक्तः, सर्वज्ञैः समाख्यातः । क इव ?, इत्याह-इन्द्रादिवत् स्वर्गाधिपादिवत्, आदिशब्दाज्ज्वलन - जीवादिपरिग्रहः । सोऽपि कथं भावः ? इत्याह-इन्दनादिक्रियानुभवात् इति, आदिशब्देन ज्वलन - जीवादिक्रियास्वीकारः, विवक्षितेन्दनादिक्रियान्वितो लोके प्रसिद्धः पारमार्थिकपदार्थो भाव उच्यते ।" विशेषा० बृ० गा० ४९ ।
१. अनुभूयमानपर्याययुक्तं वस्तुस्वरूपं यदा प्रतिपाद्यते तदा भावनिक्षेप इति भावः ।