________________
२३४
सटीकजैनतर्कभाषायां
उदाहरति-यथेति । अङ्गारमर्दकः = अङ्गारमर्दकसंज्ञक आचार्यविशेषः १ । तत्र द्रव्या
चार्यत्वमुपपादयति-आचार्यगुणरहितत्वादिति ।
क्वचिदनुपयोगेऽपि, यथाऽनाभोगेनेहपरलोकाद्याशंसालक्षणेनाऽविधिना च भक्त्याऽपि क्रियमाणा जिनपूजादिक्रिया द्रव्यक्रियैव-अनुपयुक्तक्रियाया: साक्षाद् मोक्षाङ्गत्त्वाभावाद् ।
क्वचिदनुपयोगेऽपीत्यनन्तरं द्रव्यनिक्षेपः प्रवर्त्तते इत्यनुवर्त्तनीयम् । उदाहरतियथेति । अनाभोगेन=अन्यगतचित्तत्वादिना यथावदुपयोगशून्येन । अथवाऽनाभोगस्वरूपोपदर्शकमेव इहलोकपरलोकाद्याशंसालक्षणेनेति । यदि पूजाविधायकागमार्थोपयोगो भवेत् तदा तत्रेहलोकाद्याशंसा प्रतिषिद्धेति तदाशंसया जिनपूजां नैव कुर्यादिति तदाशंसा चिह्न - मागमार्थानुपयोगस्य । अप्राधान्यादेवाऽत्राऽपि द्रव्यत्वमित्याह- अनुपयुक्तक्रियाया इति ।
साक्षादित्युपादानात् परम्परया मोक्षाङ्गत्वमनुपयुक्तक्रियाया अप्यस्तीति लब्धमेव स्पष्टप्रतिपत्तये आह
भक्त्याऽविधिनाऽपि क्रियमाणा सा पारम्पर्येण मोक्षाङ्गत्त्वापेक्षया द्रव्यतामश्नुतेभक्तिगुणेनाऽविधिदोषस्य निरनुबन्धीकृतत्वादित्याचार्याः ।
सा- जिनपूजादिक्रिया । ननु विध्यभावे सति कथं परम्परया ततः फलमित्यत आहभक्तिगुणेनेति । भक्त्यभावविशिष्टाविधेरेव कार्यप्रतिबन्धकत्वम्, तदभावस्य च कारणत्वमित्यभिसन्धिः । निरनुबन्धित्वम्-अङ्गवैगुण्यप्रयुक्तजिनपूजागतस्वस्वकार्यानर्जकत्वापादनलक्षणकार्यासाम्मुख्यम् । आचार्याः-जैनाचार्याः ।
अनुपयोगे द्रव्यत्वं विशेषावश्यके ऽपि प्रतिपादितम् । तथा च तद्ग्रन्थः-“योऽनुपयुक्तो जिनप्रणीतां मङ्गलरूपां प्रत्युपेक्षणादिक्रियां करोति स नोआगमतो ज्ञशरीरभव्यशरीरातिरिक्तं द्रव्यमङ्गलम् । उपयोगरूपोऽत्राऽऽगमो नाऽस्तीति नोआगमतो, ज्ञशरीरभव्यशरीरयोर्ज्ञानापेक्षा द्रव्यमङ्गलता, अत्र तु क्रियापेक्षा, अतः तद्व्यतिरिक्तत्वम्, अनुपयुक्तस्य क्रियाकरणात्तु द्रव्यमङ्गलता भावनीया । उपयुक्तस्य तु क्रिया यदि गृह्येत तदा भावमङ्गलतैव स्यादिति भावः " (विशेषा० बृ० ४६ ) इति ।
भावनिक्षेपं निरूपयति
'क्वचिदनुपयोगेऽपि ' - अत्र रत्नप्रभायामुल्लिखितो 'योऽनुप०' इति भाष्यपाठः समस्ति ।
१. अस्याऽऽचार्यास्य वृत्तान्त उपदेशमाला ( गाथा १६८ ) टीकातोऽवगन्तव्यः ।