________________
२३३
निक्षेपविशेषनिरूपणम् व्यवहारकालानुगामि । अन्यद् व्यक्तम् ।
___उदाहरति-यथेति । उक्तमुदाहरणद्वयं सद्भूतस्थापनायाः । उपलक्षणं चैतदसद्भूतस्थापनोदाहरणस्याऽपि ।
द्रव्यनिक्षेपं निरूपयति
भूतस्य भाविनो वा भावस्य कारणं यद् निक्षिप्यते स द्रव्यनिक्षेपः । यथाऽनुभूतेन्द्रपर्यायोऽनुभविष्यमाणेन्द्रपर्यायो वा इन्द्रः। ..
अत्र स इत्यन्तं लक्षणवचनम्, द्रव्यनिक्षेप इति लक्ष्यवचनम् । भूतस्य-अतीतपर्यायस्य, भाविनः भविष्यत्पर्यायस्य, भावस्य-स्वर्गाधिपत्यादिधर्मालिङ्गितेन्द्रादिरूपार्थस्य, कारणं यद् जीवद्रव्यं पूर्वमिन्द्रोऽभूद्, भविष्यति वोत्तरकाले इन्द्रः, निक्षिप्यते अयमिन्द्र इत्येतद्रूपेण स्थाप्यते, स-जीवः, द्रव्यनिक्षेपः=द्रव्येन्द्रः ।
उदाहरति-यथेति । यः खलु जीवविशेषो देवेन्द्रो भूत्वा तद्योगजनककर्मपरिसमाप्तौ तच्छरीरं परित्यज्य मनुजयोनौ समुत्पन्नः, तदानीं मनुष्योऽपि सन् अनुभूतेन्द्रपर्यायः पूर्वमासादितेन्द्रपर्याय इति कृत्वा 'इन्द्रोऽय'मिति व्यपदिश्यते । यो वेदानी मनुजगतौ वर्तमानो जीव उत्तरकाले मनुजोपभोग्याखिलकर्मपरिशाटे मनुजतनुं विहाय देवेन्द्रपदोपभोग्यकर्मोदयकाले देवगतौ देवेन्द्रो भविष्यत्काले भविष्यति, स जीवोऽनुभविष्यमाणेन्द्रपर्यायः ‘इन्द्रोऽय'मिति व्यपदिश्यते । तावुभौ, इन्द्रः-द्रव्येन्द्रः, द्रव्यनिक्षेप इत्यर्थः ।
कथमनयोरिन्द्रपर्यायाभावकाले इन्द्रपदव्यपदेश्यतेत्यपेक्षायां निदर्शनावष्टम्भतः तद्व्यवस्थामाह
अनुभूतघृताधारत्वपर्यायेऽनुभविष्यमाणघृताधारत्वपर्याये च घृतघटव्यपदेशवत् तत्रेन्द्रशब्दव्यपदेशोपपत्तेः ।।
अनुभूतघृताधारत्वपर्याये-येन घटेन पूर्वं घृतधारणं कृतं तस्मिन्, अनुभविष्यमाणघृताधारत्वपर्याये-यश्च घट उत्तरकालं घृतधारणं करिष्यति तस्मिन् । तदुभयस्मिन् घटे घृतघटव्यपदेशव= लोके 'अयं घृतघट' इति व्यपदेशो यथा भवति तथा, तत्र-अनुभूतेन्द्रपर्यायेऽनुभविष्यमाणेन्द्रपर्याये च जीवे, इन्द्रशब्दव्यपदेशोपपत्तेः- 'अयमिन्द्र' इत्येवमिन्द्रशब्दप्रयोगस्य युक्तत्वात् ।
प्रकारान्तरेण द्रव्यनिक्षेपप्रवृत्तिमुपदर्शयति
क्वचिदप्राधान्येऽपि द्रव्यनिक्षेप प्रवर्तते, यथाऽङ्गारमर्दको द्रव्याचार्यः, आचार्यगुणरहितत्वाद् अप्रधानाचार्य इत्यर्थः ।