Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 300
________________ जैनतर्कभाषा(मूल) २६९ हेतुग्रहणाधिकरणतया, यथा पर्वतो वह्निमान् धूमवत्त्वादित्यत्र धूमस्य पर्वते ग्रहणाद् वढेरपि तत्र भानमिति । व्याप्तिग्रहवेलायां तु पर्वतस्य सर्वत्राऽनुवृत्त्यभावेन न ग्रह इति । यत्तु अन्तर्व्याप्त्या पक्षीयसाध्यसाधनसम्बन्धग्रहात् पक्षसाध्यसंसर्गभानम्, तदुक्तम्-"पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्तर्व्याप्तिः, अन्यत्र तु बहिर्व्याप्तिः" (प्र.न. ३.३८) इति, तेन्न, अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायनशक्तौ सत्यां बहिर्व्याप्तेरुद्भावनव्यर्थत्वप्रतिपादनेन तस्याः स्वरूपप्रयुक्त(क्ताऽ)व्यभिचारलक्षणत्वस्य, बहिर्व्याप्तेश्च सहचारमात्रत्वस्य लाभात्, सार्वत्रिक्या व्याप्तेविषयभेदमात्रेण भेदस्य दुर्वचत्वात् । न चेदेवं तदाऽन्तर्व्याप्ति-ग्रहकाल एष एव(काल एव) पक्षसाध्यसंसर्गभानादनुमानवैक(फ)ल्यापत्तिः विना पर्वतोवह्निमानित्युद्देश्यप्रतीतिमिति यथातन्त्रं भावनीयं सुधीभिः ।। ___इत्थं च 'पक्वान्येतानि सहकारफलानि-एकशाखाप्रभवत्वाद्-उपयुक्तसहकारफलवदित्यादौ बाधितविषये, मूर्योऽयं देवदत्तः-तत्पुत्रत्वात्-इतरतत्पुत्रवदित्यादौ सत्प्रतिपक्षे चाऽतिप्रसङ्गवारणाय अबाधितविषयत्वासत्प्रतिपक्षत्वसहितं प्रागुक्तरूपत्रयमादाय पाञ्चरूप्यं हेतुलक्षणम्' इति नैयायिकमतमप्यपास्तम्, उदेष्यति शकटमित्यादौ पक्षधर्मत्वस्यैवाऽसिद्धेः, स श्यामः तत्पुत्रत्वादित्यत्र हेत्वाभासेऽपि पाञ्चरूप्यसत्त्वाच्च, निश्चितान्यथानुपपत्तेरेव सर्वत्र हेतुलक्षणत्वौचित्यात् । [साध्यस्वरूपचर्चा ।] ननु हेतुना साध्यमनुमातव्यम् । तत्र किंलक्षणं साध्यमिति चेत्, उच्यते-अप्रतीतमनिराकृतमभीप्सितं च साध्यम् । शङ्कित-विपरीता-नध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतमिति विशेषणम् । प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसाङ्क्षीदित्यनिराकृतग्रहणम् । अनभिमतस्याऽसाध्यत्वप्रतिपत्तयेऽभीप्सितग्रहणम् । ___कथायां शङ्कितस्यैव साध्यस्य साधनं युक्तमिति कश्चित्, तन्न, विपर्यस्ताव्युत्पन्नयोरपि परपक्षदिदृक्षादिना कथायामुपसर्पणसम्भवेन संशयनिरासार्थमिव विपर्ययानध्यवसायनिरासार्थमपि प्रयोगसम्भवात्, पित्रादेविपर्यस्ताव्युत्पन्नपुत्रादिशिक्षाप्रदानदर्शनाच्च । न चेदेवं जिगीषुकथायामनुमानप्रयोग एव न स्यात्-तस्य साभिमानत्वेन विपर्यस्तत्वात् । अनिराकृतमिति विशेषणं वादिप्रतिवाद्युभयापेक्षया, द्वयोः प्रमाणेनाऽबाधितस्य कथायां साध्यत्वात्। अभीप्सितमिति तु वाद्यपेक्षयैव, वक्तुरेव स्वाभिप्रेतार्थप्रतिपादनायेच्छासम्भवात् । ततश्च परार्थाश्चक्षुरादय इत्यादौ पारार्थ्यमात्राभिधानेऽप्यात्मार्थत्वमेव सायं(०मेव साध्यं) सिध्यति। अन्यथा संहतपरार्थत्वेन बौद्धैश्चक्षुरादीनामभ्युपगमा[त् साधनवैफल्या]दित्यनन्वयादिदोषदुष्टमेतत्साङ्ख्यसाधनमिति १. तत्रान्ता०-सं० प्र० मु० । २. तुलना-प्र० न० ३. ३७ । ३. -०काल एव च पक्ष-मु० । ४. "विना पर्वतो वह्निमानित्युद्देश्यप्रतीतिम्" इत्यग्रेतनः पाठः सङ्गतार्थकतया अत्रैव सूपपादः । तथा च-तदान्ताप्तिग्रहकाल एव पर्वतो वह्निमानित्युद्देश्यप्रतीति विना पक्षसाध्यसंसर्गभानादनुमानवैफल्यापत्तिरित्यादिरर्थः सम्पद्यते । ५. तुलना-प्र० न० ३. १४-१७ । ६. -०गमादित्यनन्वय०-व० । अत्रायं पाठोऽनुसन्धेयः-"ततश्च परार्थाश्चक्षुरादय इत्यादौ पारार्थ्यमात्राभिधानेऽप्यात्मार्थत्वमेव साध्यस्य प्रसिद्ध्यति । तद्धीच्छया व्याप्तं साङ्ख्यस्य बौद्धं प्रति साध्यमेव । आत्मा हि साङ्ख्येन साधयितुमुपक्रान्तस्ततोऽसावेव साध्यः । अन्यथा साधनस्य वैफल्यापत्तेः, संहतपरार्थत्वेन बौद्धैश्चक्षुरादीनामुपगमात् । एवं चात्मनः साध्यत्वे हेतोरिष्टविघातकारितया विशेषविरुद्धत्वं साध्यस्य च दृष्टान्तदोषः साध्यवैकल्यमिति ।" -स्या०र० ए० ५३८ ।

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342