________________
जैनतर्कभाषा(मूल)
२६९ हेतुग्रहणाधिकरणतया, यथा पर्वतो वह्निमान् धूमवत्त्वादित्यत्र धूमस्य पर्वते ग्रहणाद् वढेरपि तत्र भानमिति । व्याप्तिग्रहवेलायां तु पर्वतस्य सर्वत्राऽनुवृत्त्यभावेन न ग्रह इति ।
यत्तु अन्तर्व्याप्त्या पक्षीयसाध्यसाधनसम्बन्धग्रहात् पक्षसाध्यसंसर्गभानम्, तदुक्तम्-"पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्तर्व्याप्तिः, अन्यत्र तु बहिर्व्याप्तिः" (प्र.न. ३.३८) इति, तेन्न, अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायनशक्तौ सत्यां बहिर्व्याप्तेरुद्भावनव्यर्थत्वप्रतिपादनेन तस्याः स्वरूपप्रयुक्त(क्ताऽ)व्यभिचारलक्षणत्वस्य, बहिर्व्याप्तेश्च सहचारमात्रत्वस्य लाभात्, सार्वत्रिक्या व्याप्तेविषयभेदमात्रेण भेदस्य दुर्वचत्वात् । न चेदेवं तदाऽन्तर्व्याप्ति-ग्रहकाल एष एव(काल एव) पक्षसाध्यसंसर्गभानादनुमानवैक(फ)ल्यापत्तिः विना पर्वतोवह्निमानित्युद्देश्यप्रतीतिमिति यथातन्त्रं भावनीयं सुधीभिः ।।
___इत्थं च 'पक्वान्येतानि सहकारफलानि-एकशाखाप्रभवत्वाद्-उपयुक्तसहकारफलवदित्यादौ बाधितविषये, मूर्योऽयं देवदत्तः-तत्पुत्रत्वात्-इतरतत्पुत्रवदित्यादौ सत्प्रतिपक्षे चाऽतिप्रसङ्गवारणाय अबाधितविषयत्वासत्प्रतिपक्षत्वसहितं प्रागुक्तरूपत्रयमादाय पाञ्चरूप्यं हेतुलक्षणम्' इति नैयायिकमतमप्यपास्तम्, उदेष्यति शकटमित्यादौ पक्षधर्मत्वस्यैवाऽसिद्धेः, स श्यामः तत्पुत्रत्वादित्यत्र हेत्वाभासेऽपि पाञ्चरूप्यसत्त्वाच्च, निश्चितान्यथानुपपत्तेरेव सर्वत्र हेतुलक्षणत्वौचित्यात् ।
[साध्यस्वरूपचर्चा ।] ननु हेतुना साध्यमनुमातव्यम् । तत्र किंलक्षणं साध्यमिति चेत्, उच्यते-अप्रतीतमनिराकृतमभीप्सितं च साध्यम् । शङ्कित-विपरीता-नध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतमिति विशेषणम् । प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसाङ्क्षीदित्यनिराकृतग्रहणम् । अनभिमतस्याऽसाध्यत्वप्रतिपत्तयेऽभीप्सितग्रहणम् ।
___कथायां शङ्कितस्यैव साध्यस्य साधनं युक्तमिति कश्चित्, तन्न, विपर्यस्ताव्युत्पन्नयोरपि परपक्षदिदृक्षादिना कथायामुपसर्पणसम्भवेन संशयनिरासार्थमिव विपर्ययानध्यवसायनिरासार्थमपि प्रयोगसम्भवात्, पित्रादेविपर्यस्ताव्युत्पन्नपुत्रादिशिक्षाप्रदानदर्शनाच्च । न चेदेवं जिगीषुकथायामनुमानप्रयोग एव न स्यात्-तस्य साभिमानत्वेन विपर्यस्तत्वात् ।
अनिराकृतमिति विशेषणं वादिप्रतिवाद्युभयापेक्षया, द्वयोः प्रमाणेनाऽबाधितस्य कथायां साध्यत्वात्। अभीप्सितमिति तु वाद्यपेक्षयैव, वक्तुरेव स्वाभिप्रेतार्थप्रतिपादनायेच्छासम्भवात् । ततश्च परार्थाश्चक्षुरादय इत्यादौ पारार्थ्यमात्राभिधानेऽप्यात्मार्थत्वमेव सायं(०मेव साध्यं) सिध्यति। अन्यथा संहतपरार्थत्वेन बौद्धैश्चक्षुरादीनामभ्युपगमा[त् साधनवैफल्या]दित्यनन्वयादिदोषदुष्टमेतत्साङ्ख्यसाधनमिति १. तत्रान्ता०-सं० प्र० मु० । २. तुलना-प्र० न० ३. ३७ । ३. -०काल एव च पक्ष-मु० । ४. "विना पर्वतो
वह्निमानित्युद्देश्यप्रतीतिम्" इत्यग्रेतनः पाठः सङ्गतार्थकतया अत्रैव सूपपादः । तथा च-तदान्ताप्तिग्रहकाल एव पर्वतो वह्निमानित्युद्देश्यप्रतीति विना पक्षसाध्यसंसर्गभानादनुमानवैफल्यापत्तिरित्यादिरर्थः सम्पद्यते । ५. तुलना-प्र० न० ३. १४-१७ । ६. -०गमादित्यनन्वय०-व० । अत्रायं पाठोऽनुसन्धेयः-"ततश्च परार्थाश्चक्षुरादय इत्यादौ पारार्थ्यमात्राभिधानेऽप्यात्मार्थत्वमेव साध्यस्य प्रसिद्ध्यति । तद्धीच्छया व्याप्तं साङ्ख्यस्य बौद्धं प्रति साध्यमेव । आत्मा हि साङ्ख्येन साधयितुमुपक्रान्तस्ततोऽसावेव साध्यः । अन्यथा साधनस्य वैफल्यापत्तेः, संहतपरार्थत्वेन बौद्धैश्चक्षुरादीनामुपगमात् । एवं चात्मनः साध्यत्वे हेतोरिष्टविघातकारितया विशेषविरुद्धत्वं साध्यस्य च दृष्टान्तदोषः साध्यवैकल्यमिति ।" -स्या०र० ए० ५३८ ।