________________
परिशिष्ट - १
२७०
वदन्ति । स्वार्थानुमानावसरेऽपि परार्थानुमानोपयोग्यभिधानम्, परार्थस्य स्वार्थपुरःसरत्वेनाऽनतिभेद
ज्ञापनार्थम् ।
व्याप्तिग्रहणसमयापेक्षया साध्यं धर्म एव, अन्यथा तदनुपपत्तेः । आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धो धर्मी । इत्थं च स्वार्थानुमानस्य त्रीण्यङ्गानि धर्मी साध्यं साधनं च । तत्र साधनं गमकत्वेनाऽङ्गम्, साध्यं तु गम्यत्वेन, धर्मी पुनः साध्यधर्माधारत्वेन - आधारविशेषनिष्ठतया साध्याद्धे(साध्यसिद्धे)रनुमानप्रयोजनत्वात् । अथवा पक्षो हेतुरित्यङ्गद्वयं स्वार्थानुमाने, साध्यधर्मविशिष्टस्य धर्मिणः पक्षत्वात् इति धर्मधर्मिभेदाभेदविवक्षया पक्षद्वयं द्रष्टव्यम् ।
धर्मिणः प्रसिद्धिश्च क्वचित्प्रमाणात् क्वचिद्विकल्पात् क्वचित्प्रमाणविकल्पाभ्याम् । तत्र निश्चितप्रामाण्यक-प्रत्यक्षाद्यन्यतमावधृतत्वं प्रमाणप्रसिद्धत्वम् । अनिश्चितप्रामाण्याप्रामाण्य-प्रत्ययगोचरत्वं विकल्पप्रसिद्धत्वम् । तद्द्वयविषयत्वं प्रमाणविकल्पप्रसिद्धत्वम् । तत्र प्रमाणसिद्धो धर्मी यथा धूमवत्त्वादग्निमत्त्वे साध्ये पर्वतः स खलु प्रत्यक्षेणाऽनुभूयते । विकल्पसिद्धो धर्मी यथा सर्वज्ञोऽस्ति सुनिश्चितासम्भवद्बाधकप्रमाणत्वादित्यस्तित्वे साध्ये सर्वज्ञः, अथवा खरविषाणं नाऽस्तीति नास्तित्वे साध्ये खरविषाणम् । अत्र हि सर्वज्ञखरविषाणे अस्तित्वनास्तित्वसिद्धिभ्यां प्राग् विकल्पसिद्धे । उभयसिद्धो धर्मी यथा शब्दः परिणामी-कृतकत्वादित्यत्र शब्दः, स हि वर्तमान (नः) प्रत्यक्षगम्यः भूतो भविष्यंश्च विकल्पगम्यः, स सर्वोऽपि धर्मीति प्रमाणविकल्पसिद्धो धर्मी । प्रमाणोभयसिद्धयोर्धर्मिणोः साध्ये कामचारः। विकल्पसिद्धे तु धर्मिणि सत्तासत्तयोरेव साध्यत्वमिति नियमः । तदुक्तम् - " विकल्पसिद्धे तस्मिन् सत्तेतरे साध्ये" [परी० ३. २३] इति ।
अत्र बौद्धः सत्तामात्रस्याऽनभीप्सितत्वाद् विशिष्टसत्तासाधने' वाऽनन्वयाद् विकल्पसिद्धे धर्मिणि न सत्ता साध्येत्याह, तदसत् इत्थं सति प्रकृतानुमानस्याऽपि भङ्गप्रसङ्गात्, वह्निमात्रस्याऽनभीप्सितत्वाद् विशिष्टवह्नेश्चाऽनन्वयादिति । अथ तत्र सत्तायां साध्यायां तद्धेतुः- भावधर्मः, भावाभावधर्मः, अभावधर्मो वा स्यात् ? । आद्येऽसिद्धिः, असिद्धसत्ताके भावधर्मासिद्धेः । द्वितीये व्यभिचारः, अस्तित्वाभाववत्यपि वृत्तेः । तृतीये च विरोधा भा(विरोधोऽभा) वधर्मस्य भावे क्वचिदप्यसम्भवात्, तदुक्तम्—
"नाऽसिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः ।
धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ? ॥'' [प्रमाणवा० १.१९२]
इति चेत्, न, इत्थं वह्निमद्धर्मत्वादिविकल्पैर्धूमेन वन्यनुमानस्याऽप्युच्छेदापत्तेः ।
विकल्पस्याऽप्रमाणत्वाद् विकल्पसिद्धो धर्मी नाऽस्त्येवेति नैयायिकः । तस्येत्थंवचनस्यैवाऽनुपपत्तेस्तूष्णीम्भावापत्तिः, विकल्पसिद्धधर्मिणोऽप्रसिद्धौ तत्प्रतिषेधानुपपत्तेरिति ।
इदं त्ववधेयम्-विकल्पसिद्धस्य धर्मिणो नाऽखण्डस्यैव भानमसत्ख्यातिप्रसङ्गादिति । शब्दादेर्विशिष्टस्य तस्य [भा]नाभ्युपगमे विशेषणस्य संशयेऽभावनिश्चये वा वैशिष्ट्यभा [ना]नुपपत्तेः विशेषणाद्यंशे
१. ० ग्रहसमया० - सं० व० मु० । प्र० न० ३. १७, २० । २. तुलना - न्यायदी० पृ० २२ । ३. तुलना -प्र० न० ३. २१ । ४. अनिश्चितप्रामाण्यप्रत्य० प्र० । ५-० साधने चानन्वया० मु० । ६. नाखण्डलस्यै ० सं० । नाखण्डस्यैवाभानं - व० । ७ तस्य भानाभ्यु० मु० । ८. वा विशिष्टवैशिष्ट्यभानानु०मु० ।