________________
जैनतर्कभाषा (मूल)
२७१ आहार्यारोपरूपा विकल्पात्मिकैवाऽनुमितिः स्वीकर्तव्या, देशकालसत्तालक्षणस्याऽस्तित्वस्य, सकलदेशकालसत्ताऽभावलक्षणस्य च नास्तित्वस्य साधनेन परपरिकल्पितविपरीतारोपव्यवच्छेदमात्रस्य फलत्वात् ।
वस्तुतस्तु खण्डशः प्रसिद्धपदार्थाऽस्तित्वनास्तित्व-साधनमेवोचितम् । अत एव "असतो नत्थि णिसेहो" [विशेषा० गा० १५७४] इत्यादि भाष्यग्रन्थे खरविषाणं नास्तीत्यत्र 'खरे विषाणं नाऽस्ति' इत्येवाऽर्थ उपपादितः । एकान्तनित्यमर्थक्रियासमर्थं न भवति क्रम-योगपद्याभावादित्यत्रापि विशेषावमर्शदशायां क्रमयोगपद्यनिरूपकत्वाभावेनाऽर्थक्रियानियामकत्वाभावो नित्यत्वादौ सुसाध इति सम्यग्निभालनीयं स्वपरसमयदत्तदृष्टिभिः ।
___ [परार्थानुमानस्य प्रतिपादनम् ।] परार्थं पक्षहेतुवचनात्मकमनुमानमुपचारात्, तेन श्रोतुरनुमानेनाऽर्थबोधनात् । पक्षस्य विवादादेव गम्यमानत्वादप्रयोग इति सौगतः तन्न, यत्किञ्चिद्वचनव्यवहितात् ततो व्युत्पन्नमतेः पक्षप्रतीतावप्यन्यान् प्रत्यवश्यनिर्देश्यत्वात् । प्रकृतानुमानवाक्यावयवान्तरैकवाक्यतापन्नात् ततोऽवगम्यमानस्य पक्षस्याऽप्रयोगस्य चेष्टत्वात् । अवश्यं चाऽभ्युपगन्तव्यं हेतोः प्रतिनियतेधर्मिधर्मताप्रतिपत्त्यर्थमुपसंहारवचनवत् साध्यस्याऽपि तदर्थं पक्षवचनं ताथागतेनापि, अन्यथा समर्थनोपन्यासादेव गम्यमानस्य हेतोरप्यनुपन्यासप्रसङ्गात्, मन्दमतिप्रतिपत्त्यर्थस्य चोभयत्राऽविशेषादिति । किञ्च, प्रतिज्ञायाः प्रयोगानर्हत्वे शास्त्रादावप्यसौ न प्रयुज्येत, दृश्यते च प्रयुज्यमानेयं शाक्यशास्त्रेऽपि । परानुग्रहार्थं शास्त्रे तत्प्रयोगश्च वादेऽपि तुल्यः, विजिगीषूणामपि मन्दमतीनामर्थप्रतिपत्तेस्तत एवोपपत्तेरिति ।
___ आगमात् परेणैव ज्ञातस्य वचनं परार्थानुमानम्, यथा बुद्धिरचेतना उत्पत्तिमत्त्वात् घटवदिति साङ्ख्यानुमानम् । अत्र हि बुद्धावुत्पत्तिमत्त्वं साङ्ख्याने(ख्येन)नैवाऽभ्युपगम्यते इति, तदेतदपेशलम्, वादिप्रतिवादिनोरागमप्रामाण्यविप्रतिप्रत्तेः, अन्यथा तत एव साध्यसिद्धिप्रसङ्गात् । परीक्षापूर्वमागमाभ्युपगमेऽपि परीक्षाकाले तद्बाधात् ।
नन्वेवं भवद्भिरपि कथमापाद्यते परं प्रति 'यत् सर्वथैकं तत् नाऽनेकत्र सम्बध्यते, तथा च सामान्यम्' इति ? सत्यम्, एकधर्मोपगते(मे) धर्मान्तरसन्दर्शनमात्रे(त्र)तत्परत्वेनैतदापादनस्य वस्तुनिश्चायकत्वाभावात्, प्रसङ्गविपर्ययरूपस्य मौलहेतोरेव तन्निश्चायकत्वात्, अनेकवृत्तित्वव्यापका-ऽनेकत्वनिवृत्त्यैव तन्निवृत्तेः मौलहेतुपरिकरत्वेन प्रसङ्गोपन्यासस्याऽपि न्याय्यत्वात् । बुद्धिरचेतनेत्यादौ च प्रसङ्गविपर्ययहेतोर्व्याप्तिसिद्धिनिबन्धनस्य विरुद्धधर्माध्यासस्य विपक्षबाधकप्रमाणस्याऽनुपस्थापनात् प्रसङ्गस्याऽप्यन्याय्यत्वमिति वदन्ति ।
हेतुः साध्योपपत्त्यन्यथानुपपत्तिभ्यां द्विधा प्रयोक्तव्यः, यथा पर्वतो वह्निमान्, सत्येव वह्नौ धूमोपपत्तेः असत्यनुपपत्तेर्वा । अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीयप्रयोगस्यैकत्राऽनुपयोगः । । १. विशेषामर्श०-प्र० व० । २. तुलना-प्र० न० ३. २३ । ३.-०मानशक्या०-सं० प्र० । व० प्रतौ 'वाक्यावय'
इत्यादि पाठ: प्रथमं लिखितोऽपि पश्चात् 'शक्यावय' इत्यादिरूपेण शोधितो दृश्यते । ४. ततः-विवादात् । द्रष्टव्यः-स्या० र० पृ० ५५० । ५. तुलना-प्र० न० ३. २४ । ६. प्रतिनियतधर्मिता प्रति०-प्र० सं० । ७. तदर्थपक्ष०-सं० । ८.०प्यस्मै न-सं० । ०प्यस्यै न-प्र० । ९. तुलना-प्र० न० ३. २९-३१ । १०. प्र० न० ३. ३२ ।