________________
२७२
परिशिष्ट-१ पक्षहेतुवचनलक्षणमवयवद्वयमेव च परप्रतिपत्त्यङ्गं न दृष्टान्तादिवचनम्, पक्षहेतुवचनादेव परप्रतिपत्तेः, प्रतिबन्धस्य तर्कत एव निर्णयात्, तत्स्मरणस्याऽपि पक्षहेतुदर्शनेनैव सिद्धेः, असमर्थितस्य दृष्टान्तादेः प्रतिपत्त्यनङ्गत्वात् तत्समर्थनेनैवाऽन्यथासिद्धेश्च । समर्थनं हि हेतोरसिद्धत्वादिदोषान्निराकृत्य स्वसाध्येनाऽविनाभावसाधनम्, तत एव च परप्रतीत्युपपत्तौ किमपरप्रयासेनेति ?
मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तादिप्रयोगोऽप्युपयुज्यते, तथाहि-यः खलु क्षयोपशमविशेषादेव निर्णीतपक्षो दृष्टान्तस्मार्यप्रतिबन्ध-ग्राहकप्रमाणस्मरणनिपुणोऽपरावयवाभ्यूहनसमर्थश्च भवति, तं प्रति हेतुरेव प्रयोज्यः । यस्य तु नाऽद्यापि पक्षनिर्णयः, तं प्रति पक्षोऽपि । यस्तु प्रतिबन्धग्राहिणः प्रमाणस्य न स्मरति, तं प्रति दृष्टान्तोऽपि । यस्तु दार्श्यन्तिके हेतुं योजयितुं न जानीते, तं प्रत्युपनयोऽपि । एवमपि साकाङ्क्ष प्रति च निगमनम् । पक्षादिस्वरूपविप्रतिपत्तिमन्तं प्रति च पक्षशुद्ध्यादिकमपीति सोऽयं दशावयवो हेतुः पर्यवस्यति ।
[हेतुप्रकाराणां प्रदर्शनम् ।] स चाऽयं द्विविधः-विधिरूपः प्रतिषेधरूपश्च । तत्र विधिरूपो द्विविधः-विधिसाधकः प्रतिषेधसाधकश्च । तत्राऽऽद्यः षोढा, तद्यथा-कश्चिद् व्याप्य एव, यथा शब्दोऽनित्यः प्रयत्लनान्तरीयकत्वादिति । यद्यपि व्याप्यो हेतुः सर्व एव, तथापि कार्याद्यनात्मव्याप्यस्यात्(त्र) ग्रहणाद्भेदः । वृक्षः शिंशपाया इत्यादेरप्यत्रैवाऽन्तर्भावः । कश्चित्कार्यरूपः, यथा पर्वतोऽयमग्निमान् धूमवत्त्वान्यथानुपपत्तेरित्यत्र धूमः, धूमो ह्यग्नेः कार्यभूतः तदभावेऽनुपपद्यमानोऽग्नि गमयति । कश्चित्कारणरूपः, यथा वृष्टिर्भविष्यति, विशिष्टमेघान्यथानुपपत्तेरित्यत्र मेघविशेषः, स हि वर्षस्य कारणं स्वकार्यभूतं वर्षं गमयति । ननु कार्याभावेऽपि सम्भवत् कारणं न कार्यानुमापकम्, अत एव न वह्निधूमं गमयतीति चेत्, सत्यम्, यस्मिन् सामर्थ्याप्रतिबन्धः कारणान्तरसाकल्यं च निश्चेतुं शक्यते, तस्यैव कारणस्य कार्यानुमापकत्वात् । कश्चित् पूर्वचरः, यथा उदेष्यति शकटं कृत्तिकोदयान्यथानुपपत्तेरित्यत्र कृत्तिकोदयानन्तरं मुहूर्तान्ते नियमेन शकटोदयो जायत इति कृत्तिकोदयः पूर्वचरो हेतुः शकटोदयं गमयति । कश्चित् उत्तरचरः, यथोदगाद्भरणिः प्राक्, कृत्तिकोदयादित्यत्र कृत्तिकोदयः, कृत्तिकोदयो हि भरण्युदयोत्तरचरस्तं गमयतीति कालव्यवधानेनाऽनयोः कार्यकारणाभ्यां भेदः । कश्चित् सहचरैः, यथा मातुलिङ्गं रूपवद्भवितुमर्हति रसवत्तान्यथानुपपत्तेरित्यत्र रसः, रसो हि नियमेन रूपसहचरितः, तदभावेऽनुपपद्यमानस्तद् गमयति, परस्परस्वरूपपरित्यागो-पलम्भपौर्वापर्याभावाभ्यां स्वभावकार्यकारणेभ्योऽस्य भेदः । एतेषूदाहरणेषु भावरूपानेवाऽग्न्यादीन् साधयन्ति धूमादयो हेतवो भावरूपा एवेति विधिसाधकविधिरूपास्त एवाऽविरुद्धोपलब्धय इत्युच्यन्ते ।
द्वितीयस्तु निषेधसाधको विरुद्धोपलब्धिनामा । स च स्वर्भावविरुद्धतद्व्याप्याद्युपलब्धिभेदात् सप्तधा । यथा नास्त्येव सर्वथा एकान्तः, अनेकान्तस्योपलम्भात् । नास्त्यस्य तत्त्वनिश्चयः, तत्र सन्देहात् । १. तुलना-प्र० न० ३. २८, ३३-३६ । २. तुलना-प्र० न० ३. ४२ । ३. दिगम्बरजैनपरम्परायां पञ्चधा शुद्धिर्न दृश्यते ।
४. तुलना-प्र० न० ३.५४-५५ । ५. तुलना-प्र० न० ३.६८-६९, ७७ । ६. -०व्याप्य: स्यात् प्र० सं० । ७. तुलना-प्र० न० ३.७८ । ८. तुलना-प्र० न०३.७९. । ९. तुलना-प्र० न० ३.७०. । १०. तुलना प्र० न०३. ८०।११. तुलना-प्र० न० ३.८१ । १२. तुलना-प्र० न० ३.७१ । १३. तुलना-प्र० न० ३.८२ । १४. तुलनाप्र० न० ३. ७६ । १५. तुलना-प्र० न० ३. ८३-९२ । १६. विरुद्धस्वभावव्यापककार्यकारणपूर्वचरोत्तरचरसहचरोपलम्भभेदात्सप्तधा । १७. तुलना-प्र० न० ३.८४, ८५, ८७-९२ ।