________________
२६८
परिशिष्ट-१ लम्भपञ्चकाद् व्याप्तिग्रह:-इत्येतेषां सिद्धान्तः, तदुक्तम्
"धूमाधीर्वह्निविज्ञानं धूमज्ञानमधीस्तयोः ।
प्रत्यक्षानुपलम्भाभ्यामिति पञ्चभिरन्वयः ॥" इति, स तु मिथ्या, उपलम्भानुपलम्भस्वभावस्य द्विविधस्याऽपि प्रत्यक्षस्य सन्निहितमात्रविषयतयाऽविचारकतया च देशादिव्यवहित-समस्तपदार्थगोचरत्वायोगात्।
यत्तु 'व्याप्यस्याऽऽहार्यारोपेण व्यापाकस्याऽऽहार्यप्रसञ्जनं तर्कः । स च विशेषदर्शनवद् विरोधिशङ्काकालीन-प्रमाणमात्रसहकारी, विरोधिशङ्कानिवर्तकत्वेन तदनुकूल एव वा । न चाऽयं स्वतः प्रमाणम्' इति नैयायिकैरिष्यते, तन्न, व्याप्तिग्रहरूपस्य तर्कस्य स्वपरव्यवसायित्वेन स्वतः प्रमाणत्वात्, पराभिमततर्कस्याऽपि क्वचिदेतद्विचाराङ्गतया, विपर्ययपर्यवसायिन आहार्यशङ्काविघटकतया, स्वातन्त्र्येण शङ्कामात्रविघटकतया वोपयोगात् ।
इत्थं चाऽज्ञाननिवर्तकत्वेन तर्कस्य प्रामाण्यं धर्मभूषणोक्तं सत्येव तन्न(तत्र)मिथ्याज्ञानरूपे व्यवच्छेद्ये सङ्गच्छते, ज्ञानाभावनिवृत्तिस्त्वर्थज्ञातताव्यवहारनिबन्धन-स्वव्यवसिति-पर्यवसितैव सामान्यतः फलमिति द्रष्टव्यम् ।
[अनुमानं द्वेधा विभज्य स्वार्थानुमानस्य लक्षणम् ।] ___साधनात्साध्यविज्ञानम्-अनुमानम् । तद् द्विविधं स्वार्थं परार्थं च । तत्र हेतुग्रहण-सम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम्, यथा गृहीतधूमस्य स्मृतव्याप्तिकस्य 'पर्वतो वह्निमान्' इति ज्ञानम् । अत्र हेतुग्रहण-सम्बन्धस्मरणयोः समुदितयोरेव कारणत्वमवसेयम्, अन्यथा विस्मृताप्रतिपन्नसम्बन्धस्याऽगृहीतलिङ्गकस्य च कस्यचिदनुमानोत्पादप्रसङ्गात् ।
[हेतुस्वरूपचर्चा ।] __निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः, न तु त्रिलक्षणकादिः । तथाहि-त्रिलक्षण एव हेतुरिति बौद्धाः। पक्षधर्मत्वाभावेऽसिद्धत्वव्यवच्छेदस्य, सपक्ष एव सत्त्वाभावे च विरुद्धत्वव्युदासस्य, विपक्षेऽसत्त्वनियमाभावे चाऽनैकान्तिकत्वनिषेधस्याऽसम्भवेनाऽनुमित्यप्रतिरोधानुपपत्तेरिति, तन्न, पक्षधर्मत्वाभावेऽपि उदेष्यति शकट-कृत्तिकोदयाद्, उपरि सविता-भूमेरालोकवत्त्वाद्, अस्ति नभश्चन्द्रो-जलचन्द्रादित्याद्यनुमानदर्शनात् । न चात्रापि 'कालाकाशादिकं भविष्यच्छकटोदयादिमत् कृत्तिकोदयादिमत्त्वात्' इत्येवं पक्षधर्मत्वोपपत्तिरिति वाच्यम्, अननुभूयमानधर्मिविषयत्वेनेत्थं पक्षधर्मत्वोपपादने जगद्धर्म्यपेक्षया काककाष्ण्येन प्रासादधावल्यस्याऽपि साधनोपपत्तेः ।
ननु यद्येवं पक्षधर्मताऽनुमितौ नाऽङ्गं तदा कथं तत्र पक्षभाननियम इति चेत्, क्वचिदन्यथाऽनुपपत्त्यवच्छेदकतया ग्रहणात् पक्षभानं, यथा नभश्चन्द्रास्तित्वं विना जलचन्द्रोऽनुपपन्न इत्यत्र; क्वचिच्च १. -०तया चोपयो०-प्र० मु० । २. धर्मभूषणेन हि श्लोकवात्तिकीयवाक्योल्लेखेन स्वमतं समथितम्, तथाहि
"तदुक्तं श्लोकवार्तिकभाष्ये-'साध्यसाधनसम्बन्धाज्ञाननिवृत्तिरूपे हि फले साधकतमस्तर्कः' इति ।" [न्यायदी० पृ० १९] । द्रष्टव्यं चैतत् तत्त्वार्थश्लोकवा० १. १३. ११५-८ वृत्तौ । ३. धर्मभूषणोक्तं तत्र सत्येव मिथ्याज्ञाने व्यवच्छेद्ये सङ्गच्छते ज्ञानरूपे । ज्ञानाभाव०-मु० । ४. -०ज्ञानता०-मु० । ५. प्र० मी० १. २.७ । ६. तुलना प्र० न० ३.९ । ७. प्र० न० ३. १०। ८. प्र० न० ३. ११-१२ । ९. -०भावे वानै०-सं० ।