Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 303
________________ २७२ परिशिष्ट-१ पक्षहेतुवचनलक्षणमवयवद्वयमेव च परप्रतिपत्त्यङ्गं न दृष्टान्तादिवचनम्, पक्षहेतुवचनादेव परप्रतिपत्तेः, प्रतिबन्धस्य तर्कत एव निर्णयात्, तत्स्मरणस्याऽपि पक्षहेतुदर्शनेनैव सिद्धेः, असमर्थितस्य दृष्टान्तादेः प्रतिपत्त्यनङ्गत्वात् तत्समर्थनेनैवाऽन्यथासिद्धेश्च । समर्थनं हि हेतोरसिद्धत्वादिदोषान्निराकृत्य स्वसाध्येनाऽविनाभावसाधनम्, तत एव च परप्रतीत्युपपत्तौ किमपरप्रयासेनेति ? मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तादिप्रयोगोऽप्युपयुज्यते, तथाहि-यः खलु क्षयोपशमविशेषादेव निर्णीतपक्षो दृष्टान्तस्मार्यप्रतिबन्ध-ग्राहकप्रमाणस्मरणनिपुणोऽपरावयवाभ्यूहनसमर्थश्च भवति, तं प्रति हेतुरेव प्रयोज्यः । यस्य तु नाऽद्यापि पक्षनिर्णयः, तं प्रति पक्षोऽपि । यस्तु प्रतिबन्धग्राहिणः प्रमाणस्य न स्मरति, तं प्रति दृष्टान्तोऽपि । यस्तु दार्श्यन्तिके हेतुं योजयितुं न जानीते, तं प्रत्युपनयोऽपि । एवमपि साकाङ्क्ष प्रति च निगमनम् । पक्षादिस्वरूपविप्रतिपत्तिमन्तं प्रति च पक्षशुद्ध्यादिकमपीति सोऽयं दशावयवो हेतुः पर्यवस्यति । [हेतुप्रकाराणां प्रदर्शनम् ।] स चाऽयं द्विविधः-विधिरूपः प्रतिषेधरूपश्च । तत्र विधिरूपो द्विविधः-विधिसाधकः प्रतिषेधसाधकश्च । तत्राऽऽद्यः षोढा, तद्यथा-कश्चिद् व्याप्य एव, यथा शब्दोऽनित्यः प्रयत्लनान्तरीयकत्वादिति । यद्यपि व्याप्यो हेतुः सर्व एव, तथापि कार्याद्यनात्मव्याप्यस्यात्(त्र) ग्रहणाद्भेदः । वृक्षः शिंशपाया इत्यादेरप्यत्रैवाऽन्तर्भावः । कश्चित्कार्यरूपः, यथा पर्वतोऽयमग्निमान् धूमवत्त्वान्यथानुपपत्तेरित्यत्र धूमः, धूमो ह्यग्नेः कार्यभूतः तदभावेऽनुपपद्यमानोऽग्नि गमयति । कश्चित्कारणरूपः, यथा वृष्टिर्भविष्यति, विशिष्टमेघान्यथानुपपत्तेरित्यत्र मेघविशेषः, स हि वर्षस्य कारणं स्वकार्यभूतं वर्षं गमयति । ननु कार्याभावेऽपि सम्भवत् कारणं न कार्यानुमापकम्, अत एव न वह्निधूमं गमयतीति चेत्, सत्यम्, यस्मिन् सामर्थ्याप्रतिबन्धः कारणान्तरसाकल्यं च निश्चेतुं शक्यते, तस्यैव कारणस्य कार्यानुमापकत्वात् । कश्चित् पूर्वचरः, यथा उदेष्यति शकटं कृत्तिकोदयान्यथानुपपत्तेरित्यत्र कृत्तिकोदयानन्तरं मुहूर्तान्ते नियमेन शकटोदयो जायत इति कृत्तिकोदयः पूर्वचरो हेतुः शकटोदयं गमयति । कश्चित् उत्तरचरः, यथोदगाद्भरणिः प्राक्, कृत्तिकोदयादित्यत्र कृत्तिकोदयः, कृत्तिकोदयो हि भरण्युदयोत्तरचरस्तं गमयतीति कालव्यवधानेनाऽनयोः कार्यकारणाभ्यां भेदः । कश्चित् सहचरैः, यथा मातुलिङ्गं रूपवद्भवितुमर्हति रसवत्तान्यथानुपपत्तेरित्यत्र रसः, रसो हि नियमेन रूपसहचरितः, तदभावेऽनुपपद्यमानस्तद् गमयति, परस्परस्वरूपपरित्यागो-पलम्भपौर्वापर्याभावाभ्यां स्वभावकार्यकारणेभ्योऽस्य भेदः । एतेषूदाहरणेषु भावरूपानेवाऽग्न्यादीन् साधयन्ति धूमादयो हेतवो भावरूपा एवेति विधिसाधकविधिरूपास्त एवाऽविरुद्धोपलब्धय इत्युच्यन्ते । द्वितीयस्तु निषेधसाधको विरुद्धोपलब्धिनामा । स च स्वर्भावविरुद्धतद्व्याप्याद्युपलब्धिभेदात् सप्तधा । यथा नास्त्येव सर्वथा एकान्तः, अनेकान्तस्योपलम्भात् । नास्त्यस्य तत्त्वनिश्चयः, तत्र सन्देहात् । १. तुलना-प्र० न० ३. २८, ३३-३६ । २. तुलना-प्र० न० ३. ४२ । ३. दिगम्बरजैनपरम्परायां पञ्चधा शुद्धिर्न दृश्यते । ४. तुलना-प्र० न० ३.५४-५५ । ५. तुलना-प्र० न० ३.६८-६९, ७७ । ६. -०व्याप्य: स्यात् प्र० सं० । ७. तुलना-प्र० न० ३.७८ । ८. तुलना-प्र० न०३.७९. । ९. तुलना-प्र० न० ३.७०. । १०. तुलना प्र० न०३. ८०।११. तुलना-प्र० न० ३.८१ । १२. तुलना-प्र० न० ३.७१ । १३. तुलना-प्र० न० ३.८२ । १४. तुलनाप्र० न० ३. ७६ । १५. तुलना-प्र० न० ३. ८३-९२ । १६. विरुद्धस्वभावव्यापककार्यकारणपूर्वचरोत्तरचरसहचरोपलम्भभेदात्सप्तधा । १७. तुलना-प्र० न० ३.८४, ८५, ८७-९२ ।

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342