Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 301
________________ परिशिष्ट - १ २७० वदन्ति । स्वार्थानुमानावसरेऽपि परार्थानुमानोपयोग्यभिधानम्, परार्थस्य स्वार्थपुरःसरत्वेनाऽनतिभेद ज्ञापनार्थम् । व्याप्तिग्रहणसमयापेक्षया साध्यं धर्म एव, अन्यथा तदनुपपत्तेः । आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धो धर्मी । इत्थं च स्वार्थानुमानस्य त्रीण्यङ्गानि धर्मी साध्यं साधनं च । तत्र साधनं गमकत्वेनाऽङ्गम्, साध्यं तु गम्यत्वेन, धर्मी पुनः साध्यधर्माधारत्वेन - आधारविशेषनिष्ठतया साध्याद्धे(साध्यसिद्धे)रनुमानप्रयोजनत्वात् । अथवा पक्षो हेतुरित्यङ्गद्वयं स्वार्थानुमाने, साध्यधर्मविशिष्टस्य धर्मिणः पक्षत्वात् इति धर्मधर्मिभेदाभेदविवक्षया पक्षद्वयं द्रष्टव्यम् । धर्मिणः प्रसिद्धिश्च क्वचित्प्रमाणात् क्वचिद्विकल्पात् क्वचित्प्रमाणविकल्पाभ्याम् । तत्र निश्चितप्रामाण्यक-प्रत्यक्षाद्यन्यतमावधृतत्वं प्रमाणप्रसिद्धत्वम् । अनिश्चितप्रामाण्याप्रामाण्य-प्रत्ययगोचरत्वं विकल्पप्रसिद्धत्वम् । तद्द्वयविषयत्वं प्रमाणविकल्पप्रसिद्धत्वम् । तत्र प्रमाणसिद्धो धर्मी यथा धूमवत्त्वादग्निमत्त्वे साध्ये पर्वतः स खलु प्रत्यक्षेणाऽनुभूयते । विकल्पसिद्धो धर्मी यथा सर्वज्ञोऽस्ति सुनिश्चितासम्भवद्बाधकप्रमाणत्वादित्यस्तित्वे साध्ये सर्वज्ञः, अथवा खरविषाणं नाऽस्तीति नास्तित्वे साध्ये खरविषाणम् । अत्र हि सर्वज्ञखरविषाणे अस्तित्वनास्तित्वसिद्धिभ्यां प्राग् विकल्पसिद्धे । उभयसिद्धो धर्मी यथा शब्दः परिणामी-कृतकत्वादित्यत्र शब्दः, स हि वर्तमान (नः) प्रत्यक्षगम्यः भूतो भविष्यंश्च विकल्पगम्यः, स सर्वोऽपि धर्मीति प्रमाणविकल्पसिद्धो धर्मी । प्रमाणोभयसिद्धयोर्धर्मिणोः साध्ये कामचारः। विकल्पसिद्धे तु धर्मिणि सत्तासत्तयोरेव साध्यत्वमिति नियमः । तदुक्तम् - " विकल्पसिद्धे तस्मिन् सत्तेतरे साध्ये" [परी० ३. २३] इति । अत्र बौद्धः सत्तामात्रस्याऽनभीप्सितत्वाद् विशिष्टसत्तासाधने' वाऽनन्वयाद् विकल्पसिद्धे धर्मिणि न सत्ता साध्येत्याह, तदसत् इत्थं सति प्रकृतानुमानस्याऽपि भङ्गप्रसङ्गात्, वह्निमात्रस्याऽनभीप्सितत्वाद् विशिष्टवह्नेश्चाऽनन्वयादिति । अथ तत्र सत्तायां साध्यायां तद्धेतुः- भावधर्मः, भावाभावधर्मः, अभावधर्मो वा स्यात् ? । आद्येऽसिद्धिः, असिद्धसत्ताके भावधर्मासिद्धेः । द्वितीये व्यभिचारः, अस्तित्वाभाववत्यपि वृत्तेः । तृतीये च विरोधा भा(विरोधोऽभा) वधर्मस्य भावे क्वचिदप्यसम्भवात्, तदुक्तम्— "नाऽसिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः । धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ? ॥'' [प्रमाणवा० १.१९२] इति चेत्, न, इत्थं वह्निमद्धर्मत्वादिविकल्पैर्धूमेन वन्यनुमानस्याऽप्युच्छेदापत्तेः । विकल्पस्याऽप्रमाणत्वाद् विकल्पसिद्धो धर्मी नाऽस्त्येवेति नैयायिकः । तस्येत्थंवचनस्यैवाऽनुपपत्तेस्तूष्णीम्भावापत्तिः, विकल्पसिद्धधर्मिणोऽप्रसिद्धौ तत्प्रतिषेधानुपपत्तेरिति । इदं त्ववधेयम्-विकल्पसिद्धस्य धर्मिणो नाऽखण्डस्यैव भानमसत्ख्यातिप्रसङ्गादिति । शब्दादेर्विशिष्टस्य तस्य [भा]नाभ्युपगमे विशेषणस्य संशयेऽभावनिश्चये वा वैशिष्ट्यभा [ना]नुपपत्तेः विशेषणाद्यंशे १. ० ग्रहसमया० - सं० व० मु० । प्र० न० ३. १७, २० । २. तुलना - न्यायदी० पृ० २२ । ३. तुलना -प्र० न० ३. २१ । ४. अनिश्चितप्रामाण्यप्रत्य० प्र० । ५-० साधने चानन्वया० मु० । ६. नाखण्डलस्यै ० सं० । नाखण्डस्यैवाभानं - व० । ७ तस्य भानाभ्यु० मु० । ८. वा विशिष्टवैशिष्ट्यभानानु०मु० ।

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342