Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 297
________________ २६६ परिशिष्ट-१ अविसंवादकत्वात् । अतीततत्तांशे वर्तमानत्वविषयत्वादप्रमाणमिदमिति चेत्, न, सर्वत्र विशेषणे विशेष्यकालभानानियमात् । अनुभवप्रमात्व-पारतन्त्र्यादत्राऽप्रमात्वमिति चेत्, न, अनुमितेरपि व्याप्तिज्ञानादिप्रमात्वपारतन्त्र्येणाऽप्रमात्वप्रसङ्गात् । अनुमितेरुत्पत्तौ परापेक्षा, विषयपरिच्छेदे तु स्वातन्त्र्यमिति चेत्, न, स्मृतेरप्युत्पत्तावेवाऽनुभवसव्यपेक्षत्वात्, स्वविषयपरिच्छेदे तु स्वातन्त्र्यात् । अनुभवविषयीकृतभावावभासिन्याः स्मृतेविषयपरिच्छेदेऽपि न स्वातन्त्र्यमिति चेत्, तर्हि व्याप्तिज्ञानादि-विषयीकृतानर्थान् परिच्छिन्दत्या अनुमितेरपि प्रामाण्यं दूरत एव । नैयत्येनाऽभात एवाऽर्थोऽनुमित्या विषयीक्रियत इति चेत्, तर्हि तत्तयाऽभात एवाऽर्थः स्मृत्या विषयीक्रियत इति तुल्यमिति न किञ्चिदेतत् । _[प्रत्यभिज्ञानस्य निरूपणम् ।] अनुभवस्मृतिहेतुकं तिर्यगूर्खतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानम् । यथा 'तज्जातीय एवाऽयं गोपिण्डः' 'गोसदृशो गवयः' 'स एवाऽयं जिनदत्त:' 'स एवाऽनेनाऽर्थः कथ्यते' 'गोविलक्षणो महिषः' 'इदं तस्माद् दूरम्' 'इदं तस्मात् समीपम्' 'इदं तस्मात् प्रांशु हुस्वं वा' इत्यादि । तत्तेदन्तारूपस्पष्टास्पष्टाकारभेदान्नैकं प्रत्यभिज्ञानस्वरूपमस्तीति शाक्यः, तन्न, आकारभेदेऽपि चित्रज्ञानवदेकस्य तस्याऽनुभूयमानत्वात्, स्वसामग्रीप्रभवस्याऽस्य वस्तुतोऽस्पष्टैकरूपत्वाच्च, इदन्तोल्लेखस्य प्रत्यभिज्ञानिबन्धनत्वात् । विषयाभावान्नेदमस्तीति चेत्, न, पूर्वापरविवर्तवत्यैकद्रव्यस्य विशिष्टस्यैतद्विषयत्वात् । अत एव 'अगृहीतासंसर्गकमनुभवस्मृतिरूपं ज्ञानद्वयमेवैतद्' इति निरस्तम्, इत्थं सति विशिष्टज्ञानमात्रोच्छेदापत्तेः । तथापि 'अक्षान्वयव्यतिरेकानुविधायित्वात् प्रत्यक्षरूपमेवेदं युक्तम्' इति केचित्, तन्न, साक्षादक्षान्वयव्यतिरेकानुविधायित्वस्याऽसिद्धेः, प्रत्यभिज्ञानस्य साक्षात्प्रत्यक्षस्मरणान्वयव्यतिरेकानुविधायित्वेनाऽनुभूयमानत्वात्, अन्यथा प्रथमव्यक्तिदर्शनकालेऽप्युत्पत्तिप्रसङ्गात् । ___ अथ पुनदर्शने पूर्वदर्शनाहितसंस्कारप्रबोधोत्पन्नस्मृतिसहायमिन्द्रियं प्रत्यभिज्ञानमुत्पादयतीत्युच्यते, तदनुचितम्, प्रत्यक्षस्य स्मृतिनिरपेक्षत्वात् । अन्यथा पर्वते वह्निज्ञानस्याऽपि व्याप्तिस्मरणादिसापेक्षमनसैवोपपत्तौ अनुमानस्याऽप्युच्छेदप्रसङ्गात् । किञ्च, 'प्रत्यभिजानामि' इति विलक्षणप्रतीतेरप्यति-रिक्तमेतत्, एतेन 'विशेष्येन्द्रियसन्निकर्षसत्त्वाद् विशेषणज्ञाने सति विशिष्टप्रत्यक्षरूपमेतदुपपद्यते' इति निरस्तम्, 'एतत्सदृशः सः' इत्यादौ तदभावात्, स्मृत्यनुभवसङ्कलनक्रमस्याऽऽनुभविकत्वाच्चेति दिक् ।। अत्राह भाट्टः-नन्वेकत्वज्ञानं प्रत्यभिज्ञानमस्तु, सादृश्यज्ञानं तूपमानमेव, गवये दृष्टे गवि च स्मृते सति सादृश्यज्ञानस्योपमानत्वात्, तदुक्तम् "तस्माद्यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥१॥ प्रत्यक्षेणाऽवबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्याऽन्यतोऽसिद्धरुपमानप्रमाणता ॥२॥" [श्लोकवा० उप० श्लो० ३७-३८] इति, तन्न, दृष्टस्य सादृश्यविशिष्टपिण्डस्य स्मृतस्य च गोः सङ्कलनात्मकस्य 'गोसदृशो गवयः' इति ज्ञानस्य प्रत्यभिज्ञानताऽनतिक्रमात् । अन्यथा 'गोविसदृशो महिषः' इत्यादेरपि सादृश्याविषयत्वेनोपमानातिरेके १. प्र० न० ३.५ । २. तुलना- प्र० न० ३.६ । ३-०रूपज्ञान०-प्र० ।

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342