________________
२६६
परिशिष्ट-१ अविसंवादकत्वात् । अतीततत्तांशे वर्तमानत्वविषयत्वादप्रमाणमिदमिति चेत्, न, सर्वत्र विशेषणे विशेष्यकालभानानियमात् । अनुभवप्रमात्व-पारतन्त्र्यादत्राऽप्रमात्वमिति चेत्, न, अनुमितेरपि व्याप्तिज्ञानादिप्रमात्वपारतन्त्र्येणाऽप्रमात्वप्रसङ्गात् । अनुमितेरुत्पत्तौ परापेक्षा, विषयपरिच्छेदे तु स्वातन्त्र्यमिति चेत्, न, स्मृतेरप्युत्पत्तावेवाऽनुभवसव्यपेक्षत्वात्, स्वविषयपरिच्छेदे तु स्वातन्त्र्यात् । अनुभवविषयीकृतभावावभासिन्याः स्मृतेविषयपरिच्छेदेऽपि न स्वातन्त्र्यमिति चेत्, तर्हि व्याप्तिज्ञानादि-विषयीकृतानर्थान् परिच्छिन्दत्या अनुमितेरपि प्रामाण्यं दूरत एव । नैयत्येनाऽभात एवाऽर्थोऽनुमित्या विषयीक्रियत इति चेत्, तर्हि तत्तयाऽभात एवाऽर्थः स्मृत्या विषयीक्रियत इति तुल्यमिति न किञ्चिदेतत् ।
_[प्रत्यभिज्ञानस्य निरूपणम् ।] अनुभवस्मृतिहेतुकं तिर्यगूर्खतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानम् । यथा 'तज्जातीय एवाऽयं गोपिण्डः' 'गोसदृशो गवयः' 'स एवाऽयं जिनदत्त:' 'स एवाऽनेनाऽर्थः कथ्यते' 'गोविलक्षणो महिषः' 'इदं तस्माद् दूरम्' 'इदं तस्मात् समीपम्' 'इदं तस्मात् प्रांशु हुस्वं वा' इत्यादि ।
तत्तेदन्तारूपस्पष्टास्पष्टाकारभेदान्नैकं प्रत्यभिज्ञानस्वरूपमस्तीति शाक्यः, तन्न, आकारभेदेऽपि चित्रज्ञानवदेकस्य तस्याऽनुभूयमानत्वात्, स्वसामग्रीप्रभवस्याऽस्य वस्तुतोऽस्पष्टैकरूपत्वाच्च, इदन्तोल्लेखस्य प्रत्यभिज्ञानिबन्धनत्वात् । विषयाभावान्नेदमस्तीति चेत्, न, पूर्वापरविवर्तवत्यैकद्रव्यस्य विशिष्टस्यैतद्विषयत्वात् । अत एव 'अगृहीतासंसर्गकमनुभवस्मृतिरूपं ज्ञानद्वयमेवैतद्' इति निरस्तम्, इत्थं सति विशिष्टज्ञानमात्रोच्छेदापत्तेः । तथापि 'अक्षान्वयव्यतिरेकानुविधायित्वात् प्रत्यक्षरूपमेवेदं युक्तम्' इति केचित्, तन्न, साक्षादक्षान्वयव्यतिरेकानुविधायित्वस्याऽसिद्धेः, प्रत्यभिज्ञानस्य साक्षात्प्रत्यक्षस्मरणान्वयव्यतिरेकानुविधायित्वेनाऽनुभूयमानत्वात्, अन्यथा प्रथमव्यक्तिदर्शनकालेऽप्युत्पत्तिप्रसङ्गात् ।
___ अथ पुनदर्शने पूर्वदर्शनाहितसंस्कारप्रबोधोत्पन्नस्मृतिसहायमिन्द्रियं प्रत्यभिज्ञानमुत्पादयतीत्युच्यते, तदनुचितम्, प्रत्यक्षस्य स्मृतिनिरपेक्षत्वात् । अन्यथा पर्वते वह्निज्ञानस्याऽपि व्याप्तिस्मरणादिसापेक्षमनसैवोपपत्तौ अनुमानस्याऽप्युच्छेदप्रसङ्गात् । किञ्च, 'प्रत्यभिजानामि' इति विलक्षणप्रतीतेरप्यति-रिक्तमेतत्, एतेन 'विशेष्येन्द्रियसन्निकर्षसत्त्वाद् विशेषणज्ञाने सति विशिष्टप्रत्यक्षरूपमेतदुपपद्यते' इति निरस्तम्, 'एतत्सदृशः सः' इत्यादौ तदभावात्, स्मृत्यनुभवसङ्कलनक्रमस्याऽऽनुभविकत्वाच्चेति दिक् ।।
अत्राह भाट्टः-नन्वेकत्वज्ञानं प्रत्यभिज्ञानमस्तु, सादृश्यज्ञानं तूपमानमेव, गवये दृष्टे गवि च स्मृते सति सादृश्यज्ञानस्योपमानत्वात्, तदुक्तम्
"तस्माद्यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥१॥ प्रत्यक्षेणाऽवबुद्धेऽपि सादृश्ये गवि च स्मृते ।
विशिष्टस्याऽन्यतोऽसिद्धरुपमानप्रमाणता ॥२॥" [श्लोकवा० उप० श्लो० ३७-३८] इति, तन्न, दृष्टस्य सादृश्यविशिष्टपिण्डस्य स्मृतस्य च गोः सङ्कलनात्मकस्य 'गोसदृशो गवयः' इति ज्ञानस्य प्रत्यभिज्ञानताऽनतिक्रमात् । अन्यथा 'गोविसदृशो महिषः' इत्यादेरपि सादृश्याविषयत्वेनोपमानातिरेके
१. प्र० न० ३.५ । २. तुलना- प्र० न० ३.६ । ३-०रूपज्ञान०-प्र० ।