Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 275
________________ २४४ सटीकजैनतर्कभाषायां "नामाइतियं दव्वट्ठियस्स, भावो अपज्जवणयस्स । संगहववहारा पढमगस्स, सेसा उ इयस्स ॥ (७५)" इत्यादिना विशेषावश्यके । (नामादित्रिकं द्रव्यार्थिकस्य, भावश्च पर्यवनयस्य । सङ्ग्रहव्यवहारौ प्रथमस्य, शेषास्त्वितरस्य ॥).. द्वितीयस्य पर्यायास्तिकनयस्य । तत्प्रतिपादनपरा सम्मतिगाथा चेयम्"मूलणिभेण पज्जवणयस्स, उज्जुसुअवयणविच्छेओ । तस्स उ सद्दाईआ, साहपसाहा सुहुमभेआ ॥" इति । (१-५) (मूलमात्रं पर्यवनयस्य, ऋजुसूत्रवचनविच्छेदः । । तस्य तु शब्दादिकाः, शाखाप्रशाखाः सूक्ष्मभेदाः ॥) एतन्निर्गलितार्थो यथा टीकायां-"पर्यायनयस्य प्रवृत्तिराद्या ऋजुसूत्रः, सा त्वशुद्धा, शब्दः शुद्धा, शुद्धतरा समभिरूढः, अत्यन्तशुद्धा त्वेवम्भूतः" इति । इत्याचार्येति । उक्तस्वरूपं यद् आचार्यसिद्धसेनमतम्, तदनुसारेणेत्यर्थः । नामादित्रिकं द्रव्यार्थिकानुमतमिति तु सिद्धसेनमतं "नामं ठवणा दविएति एस दव्वट्ठियस्स णिक्खेवो । भावो उ पज्जवट्ठियस्स, परूवणा एस परमत्थो ॥" इत्यनया गाथया ज्ञायते । (नाम स्थापना द्रव्यमित्येष द्रव्यार्थिकस्य निक्षेपः । भावस्तु पर्यायार्थिकस्य, प्ररूपणा एष परमार्थः ॥) ननु 'नामादिनिक्षेपत्रयं द्रव्यार्थिकस्य, भावनिक्षेपः पर्यायार्थिकस्ये'त्यभिहितं यत् पूज्यैः, तद् यदि सिद्धसेनमतानुसारेण, तर्हि पूज्यमते कीदृशी तद्व्यवस्थेत्यपेक्षायामाह स्वमते तु नमस्कारनिक्षेपविचारस्थाने"भावं चिय सद्दणया, सेसा इच्छन्ति सव्वणिक्खेवे ॥" । (भावं चैव शब्दनयाः, शेषा इच्छन्ति सर्वनिक्षेपान् ।) इति वचसा त्रयोऽपि शब्दनयाः शुद्धत्वाद् भावमेवेच्छन्ति, ऋजुसूत्रादयस्तु चत्वारः चतुरोऽपि निक्षेपानिच्छन्तिअविशुद्धत्वादित्युक्तम्। स्वमते तु जिनभद्रगणिक्षमाश्रमणमते पुनः । त्रयः शब्दसमभिरूद्वैवम्भूताख्याः । ऋजुसूत्रादयः-ऋजुसूत्रनैगमसङ्ग्रहव्यवहाराः । नैगमादय इति वक्तव्ये यदेवमभिधानं तद् ऋजुसूत्रस्य द्रव्यार्थिकत्वस्पष्टप्रतिपत्तये । चतुरोऽपि नामस्थापनाद्रव्यभावानपि ।

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342