Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 278
________________ निक्षेपनयसंयोजना २४७ तावद् नाम निर्विवादमिच्छति । तच्च नाम इन्द्रादिसञ्ज्ञामात्रं वा भवेद् इन्द्राद्यर्थरहितं गोपालदारकादि वस्तु भवेदिति द्वयी गतिः । इदं चोभयरूपमपि नाम भावकारणमिति कृत्वा इच्छन् असावृजुसूत्रो द्रव्यस्थापने कथं नाम नेच्छेत् ? भावकारणत्वाविशेषादिति भावः । अथेन्द्रादिकं नाम भावेऽपि भावेन्द्रेऽपि सन्निहितमस्ति, तस्मादिच्छति तद् ऋजुसूत्र:, तर्हि जितमस्माभिः - तस्य न्यायस्य द्रव्यस्थापनापक्षे सुलभतरत्वात् । तथाहि - द्रव्यस्थापने अपि भावस्येन्द्रपर्यायस्याऽऽसन्नतरौ हेतू, शब्दस्तु तन्नामलक्षणो बाह्यतर इति । एतदुक्तं भवति - इन्द्रमूर्त्तिलक्षणं द्रव्यम्, विशिष्टतदाकाररूपा तु स्थापना - एते द्वे अपि इन्द्रपर्यायस्य तादात्म्येनाऽवस्थितत्वात् सन्निहिततरे, शब्दस्तु नामलक्षणो वाच्यवाचकभावसम्बन्धमात्रेणैव स्थितत्वाद् बाह्यतर इति । अतो भावे सन्निहितत्वाद् नामेच्छन् ऋजुसूत्रो द्रव्यस्थापने सन्निहिततरत्वात् सुतरामिच्छेदिति ।" (विशेषा० बृ० २८५० - १) एतावता ऋजुसूत्रस्य निक्षेपचतुष्टयाभ्युपगन्तृत्वं निष्टङ्कितम् । अथ सङ्ग्रहव्यवहारयोः तत्साधनायोपक्रमः । तत्र सङ्ग्रहव्यवहारौ स्थापनां नाऽभ्युपगच्छत इति केषाञ्चिद् मतं प्रतिक्षेप्तुमुपन्यस्यति सङ्ग्रहव्यवहारौ स्थापनावर्जान् त्रीन् निक्षेपानिच्छत इति केचित्, तद् नाऽनवद्यम् । त्रीन्=नामद्रव्यभावान् । तद् नाऽनवद्यम् = उक्तमतं न निर्दुष्टम् । तत्र हेतुमाह यतः सङ्ग्रहिकोऽसङ्ग्रहिकोऽनर्पितभेदः परिपूर्णो वा नैगमः तावत् स्थापनामिच्छतीत्यवश्यमभ्युपेयम् - सङ्ग्रहव्यवहारयोरन्यत्र द्रव्यार्थिके स्थापनाभ्युपगमावर्जनात् । तत्राऽऽद्यपक्षे सङ्ग्रहे स्थापनाभ्युपगमप्रसङ्गः- सङ्ग्रहनयमतस्य सङ्ग्रहिकनैगममताविशेषात् । द्वितीये व्यवहारे तदभ्युपगमप्रसङ्गः- तन्मतस्य व्यवहारमतादविशेषात् । तृतीये च निरपेक्षयोः सङ्ग्रहव्यवहारयोः स्थापनानभ्युपगमोपपत्तावपि समुदितयोः सम्पूर्ण - नैगमरूपत्वात् तदभ्युपगमस्य दुर्निवारत्वम्-अविभागस्थाद् नैगमात् प्रत्येकं तदेकैकभागग्रहणात् । नैगमो नयः त्रिविधः-सङ्ग्रहिकासङ्ग्रहिकसर्वभेदात् । तत्र - सङ्ग्रहिकः सङ्ग्रहमतावलम्बी, सामान्यमात्रग्राहीति यावत् । असङ्ग्रहिको व्यवहारमतावलम्बी, विशेषमात्रग्राहीति यावत् । सर्वोऽनर्पितभेदः परिपूर्णः सामान्यविशेषोभयग्राहीति यावत् । स च नैगमः स्थापनामभ्युपगच्छतीति भवतोऽपि सम्मतं - सङ्ग्रहव्यवहारयोरेव स्थापनावर्जनस्य भवताऽभिधानात् । 'तन्नाऽनवद्यम्'' - अत्र रत्नप्रभायामुल्लिखित: (पृष्ठ २४९) 'तत् परिहरन् ०' इति भाष्यपाठः समस्ति ।

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342