Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 279
________________ २४८ सटीकजैनतर्कभाषायां एवं च यदि सामान्यमात्रग्राही नैगमः स्थापनामिच्छति, कथं तर्हि सामान्यमात्रग्राहित्वेन तदविशिष्टः सङ्ग्रहः स्थापनां नाऽभ्युपेयात् ? एवं यदि विशेषमात्रग्राही नैगमः स्थापनां स्वीकरोति, कथं विशेषमात्रग्राहित्वेन तदविशिष्टो व्यवहारो न स्थापनां स्वीकुर्याद् ? तथा सामान्यविशेषोभयग्राही नैगमो यदा स्थापनाभ्युपगन्ता, तदा निरपेक्षयोः सङ्ग्रहव्यवहारयोः सामान्यविशेषोभयग्राहित्वाभावात् तदविशिष्टत्वाभावात् तदृष्टान्तावष्टम्भेन स्थापनाभ्युपगन्तृत्वस्य साधयितुमशक्यत्वेऽपि, परस्परसापेक्षत्वेन समुदितरूपयोः सङ्ग्रहव्यवहारयोः परिपूर्णनैगमरूपत्वसम्भवतः स्थापनाभ्युपगन्तृत्वं स्यादेवेत्याह-यतः सङ्ग्रहिक इति । नैगमः स्थापनामुपगच्छतीति कथमभ्युपेयमित्याकाङ्क्षायामाह-सङ्ग्रहव्यवहारयोरन्यत्रेति । सङ्ग्रहव्यवहाराभिन्ने द्रव्यार्थिकनये स्थापनाभ्युपगमवर्जनस्याऽभावात्-'सङ्ग्रहव्यवहारौ स्थापनावर्जा'नित्युक्त्या सङ्ग्रहव्यवहारयोरेव स्थापनावर्जनस्य भवता कृतत्वादित्यर्थः । ननु नैगमस्य स्थापनाभ्युपगन्तृत्वेऽपि प्रकृते किमायातमित्यत आह-तत्रेति । तत्र नैगमस्य स्थापनाभ्युपगमे सति । आद्यपक्षे-सङ्ग्रहिको नैगमः स्थापनामभ्युपगच्छतीति पक्षे । द्वितीये असङ्ग्रहिको नैगमः स्थापनामभ्युपगच्छतीति पक्षे । तदभ्युपगमप्रसङ्ग स्थापनाभ्युपगमप्रसङ्गः । तन्मतस्य-असङ्ग्रहिकनैगमनयमतस्य । तृतीये च-सामान्यविशेषोभयग्राही यः परिपूर्णो नैगमः, स स्थापनामभ्युपगच्छतीति पक्षे च । समुदितयोरित्यनन्तरं सङ्ग्रहव्यवहारयोरिति सम्बद्ध्यते । तदभ्युपगमस्य-स्थापनाभ्युपगमस्य । अविभागस्थात् सम्पूर्णात् । प्रत्येकम्-समुदितयोः सङ्ग्रहव्यवहारयोरेकैकेन पृथक्सङ्ग्रहेण पृथग्व्यवहारेण । तदेकैकभागग्रहणात् नैगमैकभागस्य सामान्यग्राहित्वस्य सङ्ग्रहेण, नैगमैकभागस्य विशेषग्राहित्वस्य च व्यवहारेण ग्रहणात्-स्वधर्मतयाऽऽश्रयणादिति । अपि च नैगमस्य यः सामान्यावगाहनलक्षणो भागः स एव [सङ्ग्रहः, यश्च विशेषावगाहनलक्षणो भागः स एव] व्यवहार-इत्येवं सङ्ग्रहव्यवहारौ नैगमान्तर्भूतावेव । एवञ्च नैगमस्य यद् मतम्, तन्मतान्तर्गतमेव सङ्ग्रहव्यवहारयोरपि [मतमिति तयोः] मते स्थापनाभ्युपगमोऽस्तीत्यायातमेवेति तत्र तद्वर्जनं न युक्तमित्याह किञ्च, सङ्ग्रहव्यवहारयो गमान्तर्भावात् स्थापनाभ्युपगमलक्षणं तन्मतमपि तत्राऽन्तर्भूतमेव, उभयधर्मलक्षणस्य विषयस्य प्रत्येकमप्रवेशेऽपि स्थापनालक्षणस्यैकधर्मस्य प्रवेशस्य सूपपादत्वात्, स्थापनासामान्य-तद्विशेषाभ्युपगममात्रेणैव सङ्ग्रहव्यवहारयोर्भेदोपपत्तिरिति यथागमं भावनीयम् । "किञ्च'-अत्र रत्नप्रभायामुल्लिखितः (पृष्ठ २५०) 'इदमुक्तं भवति...' इति भाष्यपाठ: समस्ति।

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342