Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 252
________________ नयाभासाः २२१ स्तनपानप्रवृत्तिरपीष्टसाधनताज्ञानत एव । तदानीं च न तस्य तदनुभव इति तत्स्मरणं वाच्यम् । तच्च पूर्वानुभवजनितवासनाप्रभवमिति पूर्वजन्मनि तेनाऽनुभूतं दुग्धपानेष्टसाधनत्वमिदानीं स्मर्यते इत्येवं जन्मपरम्परानुगतानादिवासनाप्रवाहाकलितैकात्माऽनुमानप्रमाणसिद्धः । प्रत्यक्षेऽपि प्रामाण्यसिद्धिर्न स्वतः, किन्तु 'इदं प्रमाणं संवादिप्रवृत्तिजनकत्वा'दित्याद्यनुमानत एवेति प्रत्यक्षप्रमाणमभ्युपगच्छन् चार्वाकः कथमनुमानप्रमाणं नाऽभ्युपगच्छेदिति । एवं शब्दोऽपि प्रमाणं तेन कक्षीकरणीयमेव, अन्यथा - पृथिव्यादिचतुष्टयमेव तत्त्वम्, प्रत्यक्षमेव प्रमाणम्, स्वर्गजनको धर्मो नरकजनकोऽधर्म इत्यादिप्रवादो मिथ्यैव, न कोऽपि परलोकादागतो येन श्रद्दधीमहि तद्वचनादस्ति परलोक इति, “यावज्जीवेत्, सुखं जीवेद्, ऋणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य, पुनरागमनं कुतः ॥ एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद् वदन्त्यबहुश्रुताः ॥” इत्यादि स्वसिद्धान्तोद्गारोऽपि परप्रतिपत्त्यर्थं तस्य न भवेत् । आगमे चाऽऽत्मा प्रतिपादित एवेति शब्दप्रमाणसिद्धत्वमपि तस्येत्येवं जीवस्य प्रमाणप्रतिपन्नत्वे तद्रूपद्रव्यपर्यायादिविभागोऽपि प्रमाणप्रतिपन्न इत्यर्थः । जीवद्रव्येति । उपयोगलक्षणो जीवो, गुणपर्यायवत्त्वाद् द्रव्यम्, तस्य देवमनुष्यादयः पर्यायाः, ज्ञानलक्षणस्य चोपयोगस्य मतिज्ञानादयः पर्यायाः । आदिपदाद् धर्मास्तिकायो गतिलक्षणो द्रव्यम्, तस्य गतिपरिणामतोन्मुखजीवादिगत्युपष्टम्भन रूपतया परिणमनं पर्याय इत्यादेरुपग्रह इति वास्तविकम्, प्रविभागं विभजनम्, कल्पनारोपितत्वेन=कल्पना=असद्विकल्पः, तत्राऽऽरोपितः तत्रैव विषयतया व्यवस्थितः, न तु प्रमाणविषयोऽपीति कल्पनारोपितः, तत्त्वेन=कल्पनारोपितत्वेन काल्पनिकत्वाभ्युपगमेनेति यावत्, अपह्नुते अपलपति । अविचारितरमणीयमिति । यावद् विचारारूढं न भवति, तावदेव सुन्दरम्, सम्यग् - विचार्यमाणे तु विशीर्येतैवेतीदृशम्, भूतचतुष्टयप्रविभागमात्रं = पृथिवीजलतेजोवायुस्वरूपमेव तत्त्वम् । स्थूलेति । ब्राह्यप्रत्यक्षगोचरो यो लोकानां - पामरादिसाधारणलोकानाम्, न तु परीक्षकाणां, व्यवहारः=मम शरीरे सुखं दुःखम्, अहं गौरः श्यामः काणः कुब्ज इत्यादिः, तदनुयायितया=तदनुगामित्वेन, समर्थयते = व्यवस्थापयतीति । १. गतिसहायकेत्यर्थः ।

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342