________________
नयाभासाः
२२१
स्तनपानप्रवृत्तिरपीष्टसाधनताज्ञानत एव । तदानीं च न तस्य तदनुभव इति तत्स्मरणं वाच्यम् । तच्च पूर्वानुभवजनितवासनाप्रभवमिति पूर्वजन्मनि तेनाऽनुभूतं दुग्धपानेष्टसाधनत्वमिदानीं स्मर्यते इत्येवं जन्मपरम्परानुगतानादिवासनाप्रवाहाकलितैकात्माऽनुमानप्रमाणसिद्धः ।
प्रत्यक्षेऽपि प्रामाण्यसिद्धिर्न स्वतः, किन्तु 'इदं प्रमाणं संवादिप्रवृत्तिजनकत्वा'दित्याद्यनुमानत एवेति प्रत्यक्षप्रमाणमभ्युपगच्छन् चार्वाकः कथमनुमानप्रमाणं नाऽभ्युपगच्छेदिति । एवं शब्दोऽपि प्रमाणं तेन कक्षीकरणीयमेव, अन्यथा - पृथिव्यादिचतुष्टयमेव तत्त्वम्, प्रत्यक्षमेव प्रमाणम्, स्वर्गजनको धर्मो नरकजनकोऽधर्म इत्यादिप्रवादो मिथ्यैव, न कोऽपि परलोकादागतो येन श्रद्दधीमहि तद्वचनादस्ति परलोक इति,
“यावज्जीवेत्, सुखं जीवेद्, ऋणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य, पुनरागमनं कुतः ॥ एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः ।
भद्रे ! वृकपदं पश्य, यद् वदन्त्यबहुश्रुताः ॥”
इत्यादि स्वसिद्धान्तोद्गारोऽपि परप्रतिपत्त्यर्थं तस्य न भवेत् । आगमे चाऽऽत्मा प्रतिपादित एवेति शब्दप्रमाणसिद्धत्वमपि तस्येत्येवं जीवस्य प्रमाणप्रतिपन्नत्वे तद्रूपद्रव्यपर्यायादिविभागोऽपि प्रमाणप्रतिपन्न इत्यर्थः ।
जीवद्रव्येति । उपयोगलक्षणो जीवो, गुणपर्यायवत्त्वाद् द्रव्यम्, तस्य देवमनुष्यादयः पर्यायाः, ज्ञानलक्षणस्य चोपयोगस्य मतिज्ञानादयः पर्यायाः । आदिपदाद् धर्मास्तिकायो गतिलक्षणो द्रव्यम्, तस्य गतिपरिणामतोन्मुखजीवादिगत्युपष्टम्भन रूपतया परिणमनं पर्याय इत्यादेरुपग्रह इति वास्तविकम्, प्रविभागं विभजनम्, कल्पनारोपितत्वेन=कल्पना=असद्विकल्पः, तत्राऽऽरोपितः तत्रैव विषयतया व्यवस्थितः, न तु प्रमाणविषयोऽपीति कल्पनारोपितः, तत्त्वेन=कल्पनारोपितत्वेन काल्पनिकत्वाभ्युपगमेनेति यावत्, अपह्नुते अपलपति ।
अविचारितरमणीयमिति । यावद् विचारारूढं न भवति, तावदेव सुन्दरम्, सम्यग् - विचार्यमाणे तु विशीर्येतैवेतीदृशम्, भूतचतुष्टयप्रविभागमात्रं = पृथिवीजलतेजोवायुस्वरूपमेव तत्त्वम् । स्थूलेति । ब्राह्यप्रत्यक्षगोचरो यो लोकानां - पामरादिसाधारणलोकानाम्, न तु परीक्षकाणां, व्यवहारः=मम शरीरे सुखं दुःखम्, अहं गौरः श्यामः काणः कुब्ज इत्यादिः, तदनुयायितया=तदनुगामित्वेन, समर्थयते = व्यवस्थापयतीति ।
१. गतिसहायकेत्यर्थः ।