________________
२२०
सटीकजैनतर्कभाषायां
उदाहरति
यथा चार्वाकदर्शनम् । चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिविभागं कल्पनारोपितत्वेनाऽपह्नुते, अविचारितरमणीयं भूतचतुष्टयप्रविभागमात्रं तु स्थूललोकव्यवहारानुयायितया समर्थयते इति ।
तत्राऽ [Sपारमार्थिकद्रव्यपर्यायविभागाभिप्रायत्वमुपपादयति- चार्वाको हीति । हि यतः । चार्वाकः=प्रत्यक्षैकप्रमाणाभ्युपगन्ता भूतचैतन्यवादी लोकायतिकः । प्रमाणप्रतिपन्नं= प्रत्यक्षादिप्रमाणसिद्धम् । 'अहं सुखी, अहं दुःखी 'त्यादि प्रत्यक्षमेव तावद् देहादिव्यतिरिक्तात्मद्रव्यलक्षणविषयमन्तरेण नोपपद्यते । अन्धकारादौ शरीरेण बाह्येन सहाऽऽलोकादिसापेक्षचक्षुरिन्द्रियस्य स्वविषयग्राहकस्य सन्निकर्षलक्षणव्यापाराभावेऽपि उपजायमानस्य 'अहं सुखी' त्यादि प्रत्यक्षस्य चाक्षुषत्वासम्भवाद्, मानसस्य तस्य बहिरिन्द्रियसहकारेण जायमानस्य बहिर्देहादिविषयकत्वासम्भवेऽन्तर्व्यवस्थितात्मविषयकत्वमेवाऽभ्युपगन्तव्यमित्येवंदिशाप्रत्यक्षप्रमाणसिद्धत्वमस्त्येवाऽऽत्मनः ।
अथापि तत्र प्रत्यक्षप्रमाणविषयत्वे विप्रतिपद्यते सः, तथापि इन्द्रियं-सकर्तृकंकरणत्वाद्-वास्यादिवदित्याद्यनुमानप्रमाणसिद्धत्वं भवत्येवाऽऽत्मनः । चेतनं कर्ता भवति, शरीरं च न चेतनम्, तस्य चैतन्ये बाल्ये विलोकितस्य स्थाविरे स्मरणं न स्यात्
“नाऽन्यदृष्टं स्मरत्यन्यो, नैकं भूतभवत्क्रमात् ।
वासनासङ्क्रमो नाऽस्ति, न च गत्यन्तरं स्थिरे ॥” इति वचनतः तथाव्यवस्थापितत्वात्। यतः उपचयापचयलक्षणविरुद्धधर्माध्यासेन न बालवृद्धाद्यवस्थशरीरयोरैक्यम् । भेदे चाऽन्यदृष्टस्याऽन्येन स्मरणं न भवतीति नियमेन बाल्यशरीरेणाऽन्येन दृष्टस्य स्थाविरशरीरेणाऽन्येन स्मरणासम्भवः । बाल्यशरीरगतसंस्कारलक्षणवासनागुणस्य स्थविरशरीरे गमनमपि वक्तुमनर्हं - द्रव्यमात्रवृत्तेः कर्मणो गुणेऽभावात् । पूर्वशरीरस्योत्तरशरीरं प्रति कारणत्वेन कारणगतवासनायाः कार्ये सङ्क्रमाभ्युपगमे वा मातृगतवासनाया अपि पुत्रे सङ्क्रमतो मात्रनुभूतस्याऽपि पुत्रेण स्मरणं स्यात् । क्षणभङ्गपक्षस्तु न सम्भवत्येव, येन शरीरसन्ताने पूर्वपूर्वशरीरेणाऽविरलक्रमेणोत्तरोत्तरविशिष्टशरीरोत्पत्तितो यत् स्मरणकुर्वद्रूपात्मकं शरीरं भवति तेन स्मरणं जायते इति कल्पनाऽपि स्यात् । उक्तदिशेन्द्रियाणामपि चैतन्यं न सम्भवति, तत्रापि चक्षुषा दृष्टस्य चक्षुर्विनाशे यत् स्मरणं भवति, तन्न भवेदिति बालाद्यवस्थानुगतस्याऽऽत्मन एव चैतन्यात् कर्तृत्वम् ।
एवं प्रवृति प्रति सामान्यत एवेष्टसाधनताज्ञानस्य कारणतया सद्योजातस्य बालस्य