________________
नयाभासाः
२१९ उभयात्मकं मन इत्येवमेकादशेन्द्रियाणि च जायन्ते । पञ्चभ्यः तन्मात्रेभ्यश्च शब्दादाकाशः, स्पर्शाद् वायुः, रूपात् तेजः, रसादापः, गन्धात् पृथिवीत्येवं पञ्चभूतानि जायन्ते । तदुक्तमीश्वरकृष्णेन
"प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः ।
तस्मादपि षोडशकात्, पञ्चभ्यः पञ्च भूतानि ॥" इति । पुरुषश्च प्रकृतिविकृतिभिन्नः । तदुक्तम्
"मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो, न प्रकृतिर्नाऽपि विकृतिः पुरुषः ॥" इति । उक्तपञ्चविंशतितत्त्वज्ञानाच्च मुक्तिरेतद्दर्शने । तदुक्तम्
"पञ्चविंशतितत्त्वज्ञो, यत्र कुत्राऽऽश्रमे रतः ।
जटी मुण्डी शिखी वाऽपि, मुच्यते नाऽत्र संशयः ॥" इति । असत्कार्यवादो नाऽनेनाऽभ्युपगतः । "असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥" इत्यनया कारिकयोपदर्शिताद् हेतुकदम्बकात् सत्कार्यव्यवस्थानमित्यादिदिशा साङ्ख्यमतस्य प्रक्रियाऽवसेया ।
प्रकृतिविकृतिभावेन तत्त्वानां विभजनाद् व्यवहारनयाभासेऽपि साङ्ख्यदर्शनस्य प्रवेशमभिमन्यन्ते सूरयः ।
एतद्मतमपि मिथ्यात्वादेवाऽऽभासो ज्ञेयः । मिथ्यात्वं च विचारासहत्वात् । महदादीनां प्रधानात्मकत्वे-प्रधानस्वरूपं यथा प्रधानादव्यतिरिक्तं न प्रधानकार्य तथा कार्यत्वं न स्यात् कार्यकारणयोभिन्नलक्षणत्वात् । अत एव सर्वथा कार्यकारणयोरभेदमभ्युपगच्छन् साङ्ख्योऽन्येनोपहस्यते
"यदेव दधि तत्क्षीरं, यत्क्षीरं तद् दधीति च । वदता विन्ध्यवासित्वं, ख्यापितं विन्ध्यवासिना ॥" इत्येवंदिशा विचारासहत्वमस्य भावनीयम् । व्यवहाराभासं निरूपयति
अपारमार्थिकद्रव्यपर्यायविभागाभिप्रायो व्यवहाराभासः । १. यद् यस्य स्वरूपं भवति, तत्तस्य कार्य न भवति-यथा घटस्वरूपं न घटकार्यम् ।