________________
२१८
सटीकजैनतर्कभाषायां 'अस्ती'त्येवमपि यद् न ज्ञायते तद् आद्यकृतम्, सा च शक्तिः परोक्षज्ञानेन नश्यति-ब्रह्मणः परोक्षज्ञाने सति 'अस्ति ब्रह्मेति प्रतिभासात् । परोक्षज्ञानेन ज्ञायमानमपि ब्रह्म यत् स्पष्टं न भाति तद् अभानापादकशक्तिकृत्यम्, यद्वशादनुमानादिना ज्ञातं तु ब्रह्म, तत् कीदृगिति स्फुटं न प्रतिभातीति । विक्षेपशक्तिः सर्जनशक्तिः, यद्वशादसदपि जगद् ब्रह्मणि कल्पितं भवति ।।
तत्र ब्रह्मविवाधिष्ठानमिति ब्रह्मविवर्त्त जगद् । विवत्तॊ नाम विषमसत्ताककार्यापत्तिः । ब्रह्मणः सत्ता पारमार्थिकी-त्रिकालाबाध्यत्वाद् ब्रह्मणः । जगतस्तु सत्ता व्यावहारिकीब्रह्मसाक्षात्कारात् पूर्वमेव व्यवहारकाले तद् न बाध्यते इति । तत एवं ब्रह्मज्ञानातिरिक्तज्ञानाबाध्यत्वाद् व्यावहारिकस्य घटादेः प्रतिभासकालाबाध्यत्वेन प्रातिभासिकसतः शुक्तिरजतादेर्भेदः-तस्य व्यवहारकाले एव ब्रह्मज्ञानातिरिक्तेन 'नेदं रजत मिति ज्ञानेन बाधात् । एतेन वेदान्तदर्शने त्रिविधा सत्ता व्याख्याता-पारमार्थिकी, व्यावहारिकी, प्रातिभासिकी चेति । यद् यथा न भवति, तत् तथाऽवभासते इति विवर्त्तः पर्यवसितः । तेन ब्रह्मैव जगद्रूपेणाऽवभासते, न तु तद्व्यक्तिरिक्तं किमपि वस्तु समस्तीति ।
___ अविद्यायास्तु परिणामरूपं जगत्-परिणामो नाम कारणसमसत्ताककार्यापत्तिः, अविद्याजगतोयोरपि व्यावहारिकत्वात् । अत एव ब्रह्मसाक्षात्कारानन्तरमविद्यालक्षणोपादानेन सहैव जगतो निवृत्तिरित्येवं दिशा ब्रह्माद्वैतवादः पल्लवितः ।।
तदेतन्मतं यथा न सम्भवति तथा श्रीहेमचन्द्रसूरिप्रभृतिभिर्दशितम् । उक्तं च श्रीहेमचन्द्रसूरिभिः
"माया सती चेद् द्वयतत्त्वसिद्धिरथाऽसती हन्त ! कुतः प्रपञ्चः ? ।
मायैव चेदर्थसहा च तत् किं, माता च वन्ध्या च भवत्परेषाम् ? ॥" इति । एवमेकान्तशब्दाद्वैतज्ञानाद्वैतादिवादा अपि परसङ्ग्रहाभासतयाऽवसेयाः ।
साङ्ख्यदर्शने पुनः महदादिविकृतिवातजनकाशेषशक्तिसमन्वितात् प्रधानादेव मूलप्रकृतेः कार्यभेदा जायन्ते । सर्वेषां च प्रकृतिलक्षणकारणात्मकत्वमिति प्रकृत्यात्मना सर्वेषां सङ्ग्रहात् सङ्ग्रहाभासत्वमस्य ।
प्रकृतिः सत्त्वरजस्तमसां साम्यावस्था । ततो महत्तत्त्वं बुद्ध्यपरनामकमाविर्भवति । सत्कार्यवादत्वादेतद्दर्शने पूर्वमसत आद्यक्षणसम्बन्धलक्षणोत्पत्तिर्न कस्याऽपि, किन्तु कारणात्मनाऽवस्थितस्य सामग्र्या आविर्भाव एव । ध्वंसोऽप्येतन्मते तिरोभाव एव, न तु सर्वथा विनाशः । महत्तत्त्वाच्चाऽहङ्कारः, तस्माच्च पञ्च शब्दस्पर्शरूपरसगन्धात्मकानि तन्मात्राणि, श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि, वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणि,