________________
२१७
नयाभासाः इति नैयायिकवैशेषिकदर्शनं नैगमाभास इत्यर्थः ।
श्रीसिद्धसेनसूरिमते नैगमः सङ्ग्रहव्यवहारयोरन्तर्भूत इति तदाभासोऽपि तदाभासयोरेवाऽन्तर्भूतः ।
नैके गमा इति नैगमा इति व्युत्पत्त्याश्रयणाद् नैगमनयस्य बहुविधत्वमिति तदाभासस्याऽपि बहुविधत्वमिति । तद्यथा-कश्चिद् वादी पुरुष एवेदं सर्वमित्युपगच्छति, कश्चित् पुरुषस्याऽपि एकत्वमनेकत्वं चाऽभ्युपगच्छति । एवं कर्तृत्वाकर्तृत्वा-ऽसर्वगतसर्वगतत्वमूर्त्तत्वादिवादाः पुरुषमाश्रित्य विभिन्नो बहवो नैगमाभासाः । तथा जगदाश्रित्य सेश्वरत्वानीश्वरत्व-प्रधानकारणत्व-परमाणुप्रभवत्व-स्ववृत्तकर्मसापेक्षत्वतदभाव-स्वभावकृतत्वकालकृतत्व-नियतिप्रभवत्वाः परस्परनिरपेक्षनिरूपणप्रवणा नैगमाभासा इति द्रष्टव्यम् ।
सङ्ग्रहाभासं निरूपयति
सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणः सङ्ग्रहाभासः । यथाऽखिलान्यद्वैतवादिदर्शनानि साङ्ख्यदर्शनं च ।
सकलं वस्तु सदात्मकमेव, विशेषाः केऽपि न सन्त्येव-इत्येवमभ्युपगच्छन् अभिप्रायविशेषः सङ्ग्रहाभास इत्यर्थः । सत्ताऽद्वैतमुपलक्षणं ज्ञानाद्वैतशब्दाद्वैतानामपि । सङ्ग्रहाभासोऽपि परसङ्ग्रहाभासापरसङ्ग्रहाभासभेदेन द्विविधः । तयोः क्रमेणोदाहरणमाह-यथेति ।
तत्र-सच्चिदानन्दस्वरूपं ब्रह्मैव परमार्थसत, तद्भिन्नं जगद् मिथ्यैवेत्येकान्तब्रह्माद्वैतवादि वेदान्तदर्शनं सङ्ग्रहाभासः । तन्मतेऽद्वितीयं सच्चिदानन्दस्वरूपं ब्रह्मैव वस्तु । आविद्यकं जगद् मिथ्यैव । अविद्या च अज्ञानमिति मायेति च गीयते । सत्त्वरजस्तमोगुणात्मिका च सा ज्ञानविरोधिनी भावात्मिका च । सा पुनः ब्रह्माश्रिता ब्रह्मविषयिणी चेत्येकं मतम् । यदुक्तं संक्षेपशारीरके
"आश्रयत्वविषयत्वभागिनी, निविभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो, नाऽऽश्रयो भवति नाऽपि गोचरः ॥ बहु निगद्य किमत्र वदाम्यहं, शृणुत सङ्ग्रहमद्वयशासने । सकलवाङ्मनसाऽतिमता चितिः, सकलवाङ्मनसां व्यवहारभाक् ॥" इति । जीवाश्रिता ब्रह्मविषयिणी अविद्येत्यपरं मतम् ।
तस्याश्चाऽऽवरणशक्तिर्विक्षेपशक्तिश्चेति शक्तिद्वयम् । तत्राऽऽवरणशक्तिद्विधा-असत्त्वापादकाभानापादकभेदात् । तत्र सदपि ब्रह्माऽऽसत्त्वापादिकया शक्त्याऽविद्ययाऽऽवृतं सद्