________________
नयाभासनिरूपणम् नयाभासान् निरूपयति
अथ नयाभासाः । तत्र द्रव्यमात्रग्राही पर्यायप्रतिक्षेपी द्रव्यार्थिकाभासः । पर्यायमात्रग्राही द्रव्यप्रतिक्षेपी पर्यायार्थिकाभासः।
अथेति । नयनिरूपणानन्तरं प्रसङ्गसङ्गत्या नयाभासा निरूप्यन्ते इत्यर्थः । तत्रनयाभासेषु मध्ये । यथा सन्नयस्य सामान्यतो द्रव्यार्थिकपर्यायार्थिकाभ्यां द्वैविध्यं तथा नयाभासस्याऽपि द्रव्यार्थिकाभास-पर्यायार्थिकाभासाभ्यां द्वैविध्यम् । तत्र द्रव्यार्थिकाभासं लक्षयति-द्रव्यमात्रेति । प्राधान्येन द्रव्यमात्रग्राहित्वं सद्र्व्यार्थिकनयेऽपीति तत्राऽतिव्याप्तिवारणाय-पर्यायप्रतिक्षेपीति । पर्यायार्थिकाभासं लक्षयति-पर्यायमात्रेति । सत्पर्यायाथिकेऽतिव्याप्तिवारणाय-द्रव्यप्रतिक्षेपीति ।
तत्र द्रव्यार्थिकाभासः त्रिविधः-नैगमाभास-सङ्ग्रहाभास-व्यवहाराभासभेदात् । तत्र नैगमाभासं प्ररूपयति
___ धमिधर्मादीनामैकान्तेन पार्थक्याभिसन्धि गमाभासः, यथा नैयायिकवैशेषिकदर्शनम् ।
धर्मिणोरेकान्तेन भेदावगाहनप्रवणोऽभिप्रायविशेषः, धर्मयोरेकान्तेन भेदावग्राह्यध्यवसायविशेषः, धर्मधर्मिणोरेकान्तेन भेदसमर्थनपरोऽध्यवसायश्च नैगमाभास इत्यर्थः । कुण्डलाङ्गदे अत्यन्तभिन्ने इति प्रथमः, सामान्यविशेषौ विभिन्नावेव धर्मों इति द्वितीयः, अवयवावयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, नित्यद्रव्यविशेषावत्यन्तभिन्नौ एवेत्याद्या अभिप्रायविशेषाः तृतीय इत्यर्थः ।
. नैगमाभासमुदाहरति-यथेति । तत्र नैयायिकदर्शने 'प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वाधिगमाद् निःश्रेयासाधिगम' इतिगौतमसूत्रदर्शिताः षोडशपदार्थाः । वैशेषिकदर्शने द्रव्यगुणकर्मसामान्यविशेषसमवायाः षड् भावा अभावश्चेति सप्तपदार्थाः । तत्र द्रव्याणि पृथिवीजलतेजोवाय्वाकाशकालदिगात्ममनांसि नवैव । गुणा रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मगुरुत्वद्रवत्वस्नेहसंस्कारशब्दाः चतुर्विंशतिरेव । कर्माणि उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्चैव । परमपरं चेति द्विविधं सामान्यम् । नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव । समवायस्त्वेक एव । अभावस्तु प्रागभावप्रध्वंसाभावान्योन्याभावात्यन्ताभावभेदेन चतुर्धा इति सर्वेऽप्येते परस्परमत्यन्तभिन्ना एवोपगता