________________
नयविषयदर्शनम्
२१५ प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढात् शब्दः तद्विपर्ययानुयायित्वाद् बहुविषयः।
तद्विपर्ययानुयायित्वात्=पर्यायभेदेऽप्यर्थाभेदविषयकाभिप्रायत्वात् । पर्यायशब्दभेदेनाऽर्थभेदमभ्युपगच्छतः समभिरूढनयात् पर्यायशब्दभेदेऽप्यभेदमभ्युपगच्छन् शब्दनयो बहुविषयक इत्यर्थः ।
एवम्भूतात् समभिरूढस्य बहुविषयत्वं तस्मादेवम्भूतस्याऽल्पविषयत्वं च दर्शयति
प्रतिक्रियं विभिन्नमर्थं प्रतिजानानादेवम्भूतात् समभिरूढः तदन्यथार्थस्थापकत्वाद् बहुविषयः।
यदा यच्छब्दव्युत्पत्तिनिमित्तक्रिया वर्तते तदैव तच्छब्दवाच्यः सोऽर्थः, अर्थात् तत्क्रियाविरहकाले तच्छब्दार्थः स न भवतीत्येवमुररीकुर्वाणादेवम्भूतनयाद्, यदा कदापि व्युत्पत्तिनिमित्तक्रियाभावे-तादृशक्रियाविरहकालेऽपि तादृशक्रियोपलक्षितसामान्यविशेषलक्षणप्रवृत्तिनिमित्तबलात् तच्छब्दवाच्यः सम्भवत्येवमभ्युपगच्छन् समभिरूढनयो बहुविषय इत्यर्थः ।
___एतावता नैगमादिसप्तनयेषु पूर्वपूर्वनयापेक्षयोत्तरोत्तरनयस्याऽल्पविषयत्वमुत्तरोत्तरनयापेक्षया पूर्वपूर्वनयस्य बहुविषयत्वमावेदितम् ।
प्रमाणविचारावसरे दर्शितायाः सप्तभङ्ग्याः प्रतिभङ्गं सकलादेशत्वं विकलादेशत्वं च भावितमेव । तत्र सकलादेशस्वभावायाः तस्याः सम्पूर्णार्थप्ररूपकत्वात् प्रमाणवाक्यत्वमिति 'तदिदमागमप्रमाण'मित्यादिग्रन्थेन (पृ० १७९) प्रतिपादितमेव । परं विकलादेशस्वभावा सप्तभङ्गी न परिपूर्णार्थप्रापिकेति न प्रमाणवाक्यं भवितुमर्हति । तर्हि किं सेत्यपेक्षायामाह
नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुगच्छति । विकलादेशत्वात् परमेतद्वाक्यस्य प्रमाणवाक्याद् विशेष इति द्रष्टव्यम् ।
अपिना-यथा प्रमाणवाक्यं स्वार्थमभिदधानं सप्तभङ्गीमनुगच्छति तथेत्यर्थस्य सूचनम् । तर्हि नयवाक्यमपि सप्तभङ्गयनुगमनतः प्रमाणवाक्यमेव भवेदित्यत आह-विकलेति । परंकिन्तु, एतद्वाक्यस्य-नयवाक्यस्य, विकलादेशत्वाद्-सप्तभङ्गानुगमनेऽपि विकलादेशत्वस्यैव भावात्, प्रमाणवाक्यात्-सप्तभङ्गयनुगामिप्रमाणवाक्याद्, विशेषः=भेदः । .
'नयवाक्यमपि'-तत्त्वार्थश्लोक० १. ३३. ९१-९५. स्या० र० ७. ५३.
१. घटत्वादि ।