________________
२१४
सटीकजैनतर्कभाषायां ऽविशेषित एव सामान्येन कुम्भोऽभिप्रेतः, शब्दनयस्य तु स एव सद्भावादिभिः विशेषिततरोऽभिमतः इत्येवमनयोर्भेदः । तथाहि-स्वपर्यायैः परपर्यायैरुभयपर्यायैश्च सद्भावेनाऽद्भावेनोभयेन चाऽऽर्पितो विशेषतः कुम्भः कुम्भाकुम्भावक्तव्योभयरूपादिभेदो भवति, सप्तभङ्गं प्रतिपद्यते इत्यर्थः । तदेवं स्याद्वाददृष्टं सप्तभेदं घटादिकमर्थं यथाविवक्षमेकेन केनापि भङ्गेन विशेषिततरमसौ शब्दनयः प्रतिपद्यते-नयत्वाद् ऋजुसूत्राद् विशेषिततरवस्तुग्राहित्वाच्च । स्याद्वादिनस्तु सम्पूर्णसप्तभङ्गयात्मकमपि प्रतिपद्यन्ते ।" (विशेषा० बृ० गा० २२३१-२) इति ।
इत्यादिपदात् 'स्याद्धटः स्यादघटच, स्यादवक्तव्य' इत्यादिभङ्गानां परिग्रहः । तेनशब्दनयेन, तस्य-शब्दनयस्य । उपदेशादिति ।
"इच्छइ विसेसियतरं, पच्चुप्पन्ननओ सद्दो ।" इति नियुक्तिवचनेन, "तं चिय रिजुसुत्तमयं, पच्चुप्पन्नं विसेसियतरं सो।
इच्छइ भावघडं चिय जं न उ नामादिए तिन्नि ॥" (वि० गा० २२२८) इति भाष्यवचनेन,
"विशेषिततरः शब्दो, भावमात्राभिमानतः । . सप्तभङ्गयेषणालिङ्गभेदादेरर्थभेदतः ॥" इत्यादिवचनेन च शब्दनयस्य ऋजुसूत्राद् विशेषिततरत्वस्य प्रतिपादनात् । उपदर्शितवचने 'विशेषिततरः शब्द' इति स्थाने 'ऋजुसूत्राद् विशेषोऽस्य' इत्यपि पाठ उक्तार्थक एव ।
नन्वेवं सप्तभङ्ग्युपगमे साम्प्रतस्य स्याद्वादित्वमेव स्याद्, न तु नयत्वं-सम्पूर्णार्थोपदर्शकत्वेन तदेकदेशमात्रोपदर्शकत्वाभावादित्यत आह
यद्यपीदृशसम्पूर्णसप्तभङ्गपरिकरितं वस्तु स्याद्वादिन एव सङ्गिरन्ते , तथापि ऋजुसूत्रकृतैतदभ्युपगमापेक्षयाऽन्यतरभङ्गेन विशेषितप्रतिपत्तिरत्राऽदुष्टेत्यदोष' इति वदन्ति ।
एतदभ्युपगमेति । घटाद्यभ्युपगम इत्यर्थः । अत्र-शब्दनये । वदन्तीति विशेषावश्यककारादय इति दृश्यम्, तद्ग्रन्थपाठस्तु दर्शित एवेति ।
समभिरूढापेक्षया शब्दस्य बहुविषयत्वम्, तदपेक्षया शब्दस्याऽल्पविषयत्वं च दर्शयति१. वृक्षसमुदायस्य वनस्वरूपत्वे प्रत्येकं वृक्षस्य वृक्षत्वं यथा न नश्यति, तथा सप्तभङ्गसमुदायस्य
प्रमाणवाक्यत्वेऽपि प्रत्येकं भङ्गस्य नयवाक्यत्वं न विनश्यतीति भावः । प्रत्येकं भङ्गेऽपि ऋजुसूत्राभ्युपगतार्थापेक्षया विशेषिततरत्वमित्यदोषः ।