________________
२१३
नयविषयदर्शनम् सत्ता सामान्यसत्तापेक्षया, अभाव: तद्भिन्नो विशेषः, यदपि द्रव्यत्वादिसामान्यं सत्तापेक्षया विशेषो भवत्येवेति । सङ्ग्रहस्य सन्मात्रविषयकत्वेनाऽल्पविषयकत्वम्, तदपेक्षया नैगमस्य सामान्यविशेषोभयविषयकत्वेन बहुविषयकत्वमित्यर्थः ।
व्यवहारापेक्षया सङ्ग्रहस्य बहुविषयकत्वम्, तदपेक्षया व्यवहारस्य चाऽल्पविषयकत्वमिति दर्शयति
सद्विशेषप्रकाशकाद् व्यवहारतः सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः।
यद्यपि सङ्ग्रहः सन्मात्रमेव विषयीकरोति, तथापि सन्मात्रे जगदेव प्रविष्टमिति तस्य व्यवहारापेक्षया बहुविषयकत्वमित्यभिसन्धानेनोक्तम्-समस्तेत्यादि ।
ऋजुसूत्रापेक्षया व्यवहारस्य बहुविषयत्वम्, तदपेक्षया च ऋजुसूत्रस्याऽल्पविषयत्वमिति दर्शयति
वर्तमानविषयावलम्बिन ऋजुसूत्रात् कालत्रितयवर्त्यर्थजातावलम्बी व्यवहारो बहुविषयः ।
साम्प्रतनयापेक्षया ऋजुसूत्रस्य बहुविषयत्वम्, तदपेक्षया साम्प्रतस्याऽल्पविषयत्वं च दर्शयति
कालादिभेदेन भिन्नार्थोपदेशकाद् शब्दाद् तद्विपरीतवेदक ऋजुसूत्रो बहुविषयः । तद्विपरीतवेदकः कालकारकादिभेदेऽप्यभिन्नार्थप्रदर्शकः । प्रकारान्तरेणाऽपि शब्दर्जुसूत्रयोरल्पबहुविषयत्वे दर्शयति
न केवलं कालादिभेदेनैव सूत्रादल्पार्थता शब्दस्य, किन्तु भावघटस्याऽपि सद्भावासद्भावादिनाऽर्पितस्य 'स्याद् घटः, स्यादघट' इत्यादिभङ्गपरिकरितस्य तेनाऽभ्युपगमात् तस्यर्जुसूत्राद् विशेषिततरत्वोपदेशात् ।
एतत्स्वरूपप्ररूपको विशेषावश्यकग्रन्थो यथा-"अथवा प्रत्युत्पन्नऋजुसूत्रस्या
"किंतु भावघटस्यापि०' अत्र रत्नप्रभायामुद्धृतः 'अथवा प्रत्युत्पन्नः' इति भाष्यपाठः समस्ति । १. यथा न शुक्ल:-अशुक्ल:-श्यामः, तथैवाऽत्र न सत्ता=न भाव:=अभाव: विशेषः । २. शब्दो भावनिक्षेपमेवाऽभ्युपगच्छति, ऋजुसूत्रस्तु सर्वनिक्षेपानित्येवमपि शब्दाद् बहुविषयत्वं तस्य
क्षमाश्रमणमते । तदुक्तं-भावं चिय सद्दणया, सेसा इच्छंति सव्वणिक्खेवे ॥