________________
२२२
सटीकजैनतर्कभाषायां _ पर्यायार्थिकभासश्च ऋजुसूत्राभास-शब्दाभास-समभिरूढाभासै-वम्भूताभासभेदेन चतुर्धा । तत्र ऋजुसूत्राभासं निरूपयति___ वर्तमानपर्यायाभ्युपगन्ता सर्वथा द्रव्यापलापी ऋजुसूत्राभासः ।
वर्तमानपर्यायाभ्युपगन्तृत्वं सतोऽपि ऋजुसूत्रनयस्येति तत्राऽतिव्याप्तिवारणाय सर्वथा द्रव्यापलापीति । सन्नयस्तु द्रव्यं नाऽपलपति, किन्तु तत्र गजनिमीलिकामवलम्बते । एवमपि प्राधान्येन द्रव्यानभ्युपगमात् तद्रूपेण द्रव्यापलापी सोऽपि भवत्येवेत्यत उक्तं-सर्वथेति । गौणतया द्रव्याभ्युपगन्तरि तत्र सर्वप्रकारेण द्रव्यानभ्युपगन्तृत्वलक्षणं सर्वथा द्रव्यापलापित्वं न ।
कस्येति उदाहरतियथा ताथागतं मतम् ।।
ताथागतं-बौद्धम् । तन्नये हि सर्व वस्तु क्षणिकम् । तत्र वर्तमानमात्रग्राहि प्रत्यक्षं प्रमाणम् । पूर्वापरक्षणसम्बन्धं स्वाविषयत्वादगृह्णता स्वविषयं मध्यमक्षणसत्त्वं गृह्णता च प्रत्यक्षेण क्षणमात्रस्थायित्वमेव वस्तूनां सिद्धिपद्धतिमेति । यद्यपि सदृशापरापरक्षणोत्पत्तिदोषाद् अन्त्यक्षणादर्शिनाम् 'इदं क्षणिक मितिनिश्चयात्मकसविकल्पप्रत्यक्षं न भवति, तथापि क्षणक्षयिस्वलक्षणात्मकवस्तुविषयकं निर्विकल्पप्रत्यक्षं वस्तुबलसमुद्भूतं क्षणिकतायां प्रमाणं स्यादेव ।
तेन च निर्विकल्पप्रत्यक्षेण-'क्षणिकोऽयमिति व्यवहारः, 'नाऽयं क्षणिक' इति विपर्ययस्य निरासश्च-न भवतीत्युक्तव्यवहृतये उक्तविपर्ययनिरासाय च 'यत् सत्-तत् क्षणिकंयथा जलधरः-सच्च शब्दादी'त्यनुमानं प्रवर्तते । सत्त्वं चाऽत्र लिङ्गमर्थक्रियाकारित्वम्, तच्च नित्यात् स्वव्यापकक्रमयोगपद्यव्यावृत्त्या व्यावृत्तं क्षणिकत्वेन नियतमिति भवति सत्त्वात् क्षणिकत्वानुमानम् ।
अत एव नित्यस्य द्रव्यरूपस्याऽभावात् क्षणिकालयविज्ञानसन्तानमेवाऽऽत्मस्थाने सौगतेनाऽभ्युपगम्यते । 'अह'मिति ज्ञानमालयविज्ञानम् । 'अयं घटोऽयं पट' इत्यादिज्ञानं प्रवृत्तिविज्ञानम् । सुषुप्तावप्यालयविज्ञानधाराऽनुवर्तते, तत एव च सुप्तोत्थितस्य प्रथमं प्रवृत्तिविज्ञानं जायते, ततश्चोत्तरप्रवृत्तिविज्ञानमित्येवं क्रमेण प्रवृत्तिविज्ञानधाराप्रवृत्तिः । स्वप्रकाशरूपत्वं च ज्ञाने चेतनत्वम् । स्थिरात्मदर्शनं च तन्मते बन्धकारणम्, नैरात्म्यदर्शनं च मुक्तिकारणम् । रागादिक्लेशविनिर्मुक्तं चित्तमेव मुक्तिः । तदुक्तम्
"चित्तमेव हि संसारो, रागादिक्लेशवासितम् । ।
तदेव तैर्विनिर्मुक्तं, भवान्तमिति कथ्यते ॥" इत्येवंदिशा पल्लवितं तथागतमतमेकान्तपर्यायमात्रस्य द्रव्यं विनाकृतस्य मिथ्यात्वात्, तत्प्ररूपकत्वेन भवति ऋजुसूत्राभास इत्यर्थः ।