________________
नयाभासाः
२२३
यथा च नैगमाभासे नैयायिकादिदर्शने एकान्तनित्यतयाऽभ्युपगते वस्तुनि स्वव्यापकक्रमयोगपद्यनिवृत्त्याऽर्थक्रियाकारित्वलक्षणसत्त्वस्य निवृत्तिः, तथा ऋजुसूत्राभासे बौद्धदर्शनेऽपि एकान्तक्षणिकतयाऽभिमते पदार्थे स्वव्यापकक्रमयोगपद्यनिवृत्त्या निवृत्तैवाऽर्थक्रियाकारितेति नैकान्तक्षणिकत्वेन सह सत्त्वस्याऽविनाभाव इति न तत एकान्तक्षणिकानुमानसम्भव इति नाऽनुमानं क्षणिकत्वे प्रमाणम् ।
__'यत्रैव जनयेदेनां, तत्रैवाऽस्य प्रमाणते'ति वचनात् स्वानुरूपविकल्पजननद्वारैव निर्विकल्पप्रत्यक्षस्य प्रामाण्यं बौद्धेनेषितव्यम्, अन्यथा दानादिचित्तगतस्वर्गप्रापणशक्त्यादेरपि स्वसंवेदननिर्विकल्पप्रत्यक्षतः सिद्धिसम्भवात् तत्साधनार्थमनुमानप्रणयनं बौद्धस्य विफलमेव प्रसज्येत । न च क्षणिकत्वे विकल्पात्मकप्रत्यक्षमिति तन्निर्विकल्पकं न तत्र प्रमाणमिति प्रत्यक्षादपि न क्षणिकतैकान्तसिद्धिः ।।
प्रत्यभिज्ञा च सङ्कलनात्मकज्ञानलक्षणपरोक्षप्रमाणतया पूर्वमुपपादिता । पूर्वापरकालीनव्यक्त्यैक्यावगाहित्वेन स्थैर्यसाधकप्रत्यभिज्ञा बाधते चैकान्तक्षणिकत्वम् । लुनपुनर्जातकेशनखादिप्रत्यभिज्ञानस्य दीपकलिकैक्यावगाहिप्रत्यभिज्ञानस्य च बाधितविषयकत्वेनाऽप्रामाण्येऽपि, न तदृष्टान्तेन प्रत्यभिज्ञामात्रस्यैवाऽप्रामाण्यम्, तथा सति कस्यचिद् द्विचन्द्रादिप्रत्यक्षस्याऽप्रामाण्ये तज्जातीयतया प्रमाणत्वेनाऽभिमतप्रत्यक्षस्याऽप्यप्रामाण्यं प्रसज्येतेत्यतोऽपि न क्षणिकत्वम् ।
बन्धमोक्षसामानाधिकरण्यमपि तन्मते नोपपद्यते । न च सन्तानापेक्षया तदिति युक्तम्, सन्तानस्याऽपि क्षणिकत्वात् । अक्षणिकत्वे क्षणभङ्गैकान्तत्यागस्याऽऽवश्यकत्वेनाऽऽत्मैव बन्धमोक्षाधिकरणमस्तु, किं सन्तानकल्पनया ? आत्मन एव सन्तान इति नामकरणे पर्यवसितं विवादेन-स्थिरात्मद्रव्यस्य स्वहस्तितत्वात् । आत्मव्यतिरिक्तस्तु सन्तानः तन्मते न सम्भवत्यपिनिरन्वयविनष्टस्य पूर्वपूर्वविज्ञानक्षणादेरुत्तरोत्तरविज्ञानक्षणं प्रत्युपादानत्वासम्भवात् । अथैवमप्युपादानत्वे चैत्रविज्ञानक्षणं यथा पूर्ववर्ति तथा मैत्रादिसन्तानान्ततिविज्ञानक्षणमपि पूर्ववर्तीति पूर्ववर्तित्वाविशेषादन्यस्य कस्यचिद् विशेषस्योपदर्शयितुमशक्यत्वात् चैत्रविज्ञानसन्तानान्तर्वतिपूर्वविज्ञानमिव मैत्रादिविज्ञानसन्तानान्तर्वतिविज्ञानमप्युत्तरक्षणे जायमानचैत्रविज्ञानं प्रत्युपादानं स्यादिति चैत्रमैत्रादिविज्ञानसन्तानानां सङ्कीर्णता स्यादित्यादिदिशा विचारपदवीमानीतस्य बौद्धमतस्याऽप्यनुपपद्यमानत्वाद् न्यायादिदर्शनमिव तदर्शनमपि मिथ्यैवेति ।
साम्प्रताभासापरपर्यायं शब्दाभासं निरूपयति
१. द्रष्टव्योऽयं वादः स्याद्वादमञ्जर्यामन्ययोगव्यवच्छेदद्वात्रिंशिकास्थपञ्चमश्लोकविवरणे ।