________________
२२४
सटीकजैनतर्कभाषायां कालादिभेदेनाऽर्थभेदमेवाऽभ्युपगच्छन् शब्दाभासः । यथा-बभूव भवति भविष्यति सुमेरुरित्यादयः शब्दा-भिन्नमेवाऽर्थमभिदधति-भिन्नकालशब्दत्वात्ताक्सिद्धान्यशब्दवदिति ।
___ अर्थभेदमेवेत्येवकारेणाऽर्थाभेदं सर्वथाऽनभ्युपगच्छतीत्यर्थो लभ्यते, तेन गौणतयाऽर्थाभेदमभ्युपगच्छति सति शब्दनयेऽतिव्याप्तेरिणम् । यथेति । बभूव सुमेरुः, भवति सुमेरुः, भविष्यति सुमेरुरित्येवमन्वयो बोध्यः । कालादीत्यत्राऽऽदिपदेन लिङ्गादीनां ग्रहणादत्राप्यादिपदेन-तटः तटी, करोति क्रियते कुम्भः, दाराः कलत्रमित्यादेरुपग्रहः । शब्दा इत्यन्तं पक्षनिर्देशः, भिन्नमेवाऽर्थमभिदधतीति साध्यनिर्देशः, भिन्नकालशब्दत्वादिति हेतुनिर्देशः । इदं च भिन्नलिङ्गशब्दत्वादेरुपलक्षणम् । ताहसिद्धेति । भिन्नार्थतया भिन्नकालशब्दतयोभयसम्प्रतिपन्नेत्यर्थः ।
समभिरूढनयाभासं निरूपयति
पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणः समभिरूढाभासः । यथा-इन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा-भिन्नाभिधेया एव-भिन्नशब्दत्वात्-करिकुरङ्गशब्दवदिति ।
अभिधेयनानात्वमेवेत्येवकारोपादानप्रयोजनं सत्समभिरूढनयेऽतिव्याप्तिवारणम् । उदाहरति-यथेति । शब्दा इत्यन्तं पक्षनिर्देशः, भिन्नाभिधेया एवेति साध्यम्, भिन्नशब्दत्वादिति हेतुः, करिकुरङ्गशब्दवदिति दृष्टान्तवचनम् ।
एवम्भूतनयाभासं निरूपयति
क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपन् एवम्भूताभासः । यथाविशिष्टचेष्टाशून्यं घटाख्यं वस्तु-न घटशब्दवाच्यं-घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात्-पटवदिति ।
एतावता क्रियाविष्टमेव वस्तु शब्दवाच्यतयाऽभ्युबतीत्यायातमेव । क्रियानाविष्टंव्युत्पत्तिनिमित्तक्रियाशून्यम् । व्युत्पत्तिनिमित्तक्रियैव चाऽत्र प्रवृत्तिनिमित्तमिति सन्नयनिरूपणावसरे दर्शितमेव । उदाहरति-यथेति । विशिष्टेत्यादि पक्षः, न घटशब्दवाच्यमिति साध्यम्, घटशब्दप्रवृत्तिनिमित्तक्रियाशून्यत्वादिति हेतुः, पटवदिति निदर्शनम् ।
यावन्तः सन्तोऽर्थनयादयः पूर्वं निरूपिताः, तावन्तोऽर्थनयाभासादयोऽपि भवन्ति । तेषां क्रमेण स्वरूपाण्युपदर्शयति
अर्थाभिधायी शब्दप्रतिक्षेपी अर्थनयाभासः । शब्दाभिधाय्यर्थप्रतिक्षेपी शब्द