________________
२२५
नयाभासाः
नयाभासः । अर्पितमभिदधानोऽनर्पितं प्रतिक्षिपन् अर्पितनयाभासः । अनर्पितमभिदधदर्पितं प्रतिक्षिपन् अनर्पितनयाभासः । लोकव्यवहारमभ्युपगम्य तत्त्वप्रतिक्षेपी व्यवहाराभासः । तत्त्वमभ्युपगम्य व्यवहारप्रतिक्षेपी निश्चयाभासः । ज्ञानमभ्युपगम्य क्रियाप्रतिक्षेपी ज्ञाननयाभासः । क्रियामभ्युपगम्य ज्ञानप्रतिक्षेपी क्रियानयाभास इति ।
व्यक्तं सर्वम् । इति नयाभासनिरूपणम् ।
सन्नये नयाभासे च निरूपिते भेदान्तराभावाद् नयनिरूपणं परिपूर्णम् ।