________________
निक्षेपपरिच्छेदः नयनिरूपणानन्तरमवसरसङ्गत्या निक्षेपनिरूपणं प्रतिजानीतेनया निरूपिताः । अथ निक्षेपा निरूप्यन्ते । ।
प्रतिबन्धकविनिवृत्ताववश्यवक्तव्यत्वमवसरसङ्गतिः । प्रमाणनयनिक्षेपैरित्यनेन प्रमाणनयनिक्षेपा उद्दिष्टाः । तत्र प्रमाणानन्तरं नय उद्दिष्टो, नयानन्तरं निक्षेप उद्दिष्ट इति 'यथोद्देशं निर्देश' इति प्रमाणनिरूपणानन्तरं नयस्यैव जिज्ञासा समुल्लसति । यावद् नया न निरूपिता भवन्ति तावद् नयजिज्ञासा न शाम्यतीति साऽन्यनिरूपणप्रतिबन्धिका । नये च निरूपिते तादृशजिज्ञासाया उपशान्तौ तदनन्तरोपदिष्टे निक्षेपे जिज्ञासोपतिष्ठते इति तदुपशान्तये निक्षेपस्याऽवश्यवक्तव्यत्वमायातीति प्रतिबन्धजिज्ञासानिवृत्त्यवबोधनायोक्तं-नया निरूपिता इति । ___निवर्तनीयतया निक्षेपनिरूपणाङ्गनिक्षेपजिज्ञासासौलभ्यावेदनायोक्तम्-अथेति । नयनिरूपणानन्तरमिति तदर्थः । एतावतोत्तरकालीनकर्त्तव्यत्वप्रकारकज्ञानानुकूलव्यापार[विशेष्यक]लक्षणप्रतिज्ञाघटकोत्तरकालीनत्वमावेदितम् । निरूप्यन्ते इत्यत्र कर्माख्यातस्य कृतिविषयत्वलक्षणकर्मत्वमर्थः । कृतौ च ज्ञानानुकूलव्यापाररूपस्य निरूपणधात्वर्थस्याऽनुकूलत्वसम्बन्धेनाऽन्वयः । कृतिविषयत्वं च निक्षेपेषु न साक्षात्, किन्तु स्वप्रयोज्यव्यापारप्रयोज्यज्ञानविषयत्वद्वारैव । तदिदं विषयत्वमुद्देश्यत्वाख्यविषयत्वमुच्यते । तत्रापि मुख्यमुद्देश्यं ज्ञानमेव, तद्विषयत्वाद् निक्षेपेषूद्देश्यत्वमिति । व्यापारे तु कृतिसाध्ये विधेयत्वाख्यविषयत्वम्, तच्च
१. निक्षेपविषयकजिज्ञासाया निवर्त्तनाथ निक्षेपनिरूपणं भवति । अतो निक्षेपजिज्ञासा निवर्तनीयतया
निक्षेपनिरूपणस्याऽङ्गं भवति । २. यथा-'चैत्रेण तण्डुलः पच्यते' इत्यत्राऽऽख्यातस्य कृतिविषयत्वमर्थः । तच्च तण्डुलेऽन्वेति । 'पच्' धात्वर्थो
विक्लित्तिः । तस्यामुद्देश्यताख्यविषयता । तामुद्दिश्य व्यापारो विधेयः, अतो व्यापारस्तदनुकूलत्वात् तत्प्रयोजक उच्यते । स चैत्रादिशरीरनिष्ठव्यापारः चैत्रनिष्ठकृतिसाध्यो भवतीति कृतौ व्यापारानुकूलत्वम् । अथ सा विक्लित्तिस्तण्डुलनिष्ठोद्देश्यते इति तण्डुले गौणी उद्देश्यताख्यविषयता । इयमेव परम्परया कृतिविषयता । अन्वयस्तु मुख्यां वा गौणीं वोद्देश्यताख्यकृतिविषयतामधिकृत्य वक्तुं शक्यते । मुख्या (=विक्लित्तिनिष्ठा) विवक्ष्यते चेत्-चैत्रनिष्ठकृतिप्रयोज्यव्यापारप्रयोज्यविक्लित्तिनिरूपिताधेयतावत्तण्डुलः । गौणी (-तण्डुलनिष्ठा) विवक्ष्यते चेद् विक्लित्त्यनुकूलव्यापारानुकूलचैत्रनिष्ठकृतिविषयतावत्तण्डुलः । तथैव 'निक्षेपा निरूप्यन्ते' इत्यत्र उद्देश्यताख्यकृतिविषयताद्वयं-मुख्या 'निरूप्'धात्वर्थ-ज्ञानानुकूलव्यापारस्थज्ञाने, तन्निरूपिता विषयता निक्षेपेषुः गौणी निक्षेपेषु (स्वप्रयोज्यव्यापारप्रयोज्यज्ञानविषयतारूपपरम्परासम्बन्धेन) । अन्वयोऽपि द्विधा १. कृतिप्रयोज्यव्यापारप्रयोज्यज्ञानविषयतावन्निक्षेपाः २. ज्ञानानुकूलव्यापारानुकूलकृतिविषयतावन्निक्षेपाः । एतत्सर्वमेवाऽत्र शब्दान्तरैः प्रदर्श्यते ।