________________
निक्षेपनिरूपणम्
२२७ साध्यताशब्देनाऽपि गीयते इति कृतौ व्यापारानुकूलत्वप्रतीतौ 'तुल्यवित्तिवेद्यतया व्यापारेऽपि कृतिसाध्यत्वं प्रतीयते एव । अथवा कर्तृप्रत्ययस्थले आख्यातार्थस्य कृतेर्धात्वर्थविशेष्यतया भानम्, कर्मप्रत्ययस्थले तु आख्यातार्थस्य कृतेर्धात्वर्थविशेषणतया भानम्, २धात्वर्थस्य तु विषयत्वलक्षणकर्मत्वेऽन्वयः, तस्य च प्रथमान्तनामार्थेऽन्वय इति भवत्युक्तवाक्यं 'कृतिसाध्यत्वलक्षणकर्त्तव्यत्वप्रकारकनिरूपणविशेष्यकज्ञानजनिके'तिप्रतिज्ञास्वरूपमित्यर्थः ।
निक्षेपसामान्यलक्षणमुपदर्शयति
प्रकरणादिवशेनाऽप्रतिपत्त्यादिव्यवच्छेदक-यथास्थानविनियोगाय शब्दार्थरचनाविशेषा निक्षेपाः ।
अत्र शब्दार्थरचनाविशेषा इत्येतावन्मानं लक्षणम्, निक्षेपा इति लक्ष्यम् । निक्षिप्यन्ते अर्थविशेषस्वरूपबोधकतया स्थाप्यन्ते विरच्यन्ते इति भावव्युत्पत्त्या शब्दार्थरचनाविशेषस्यैव निक्षेपत्वावगतेः । प्रमीयते प्रकर्षेण वस्तु निर्णीयते इति भावव्युत्पत्त्या स्वपरव्यवसितिलक्षणप्रमारूपफलं प्रमाणम्, करणव्युत्पत्त्या तु स्वपरव्यवसितिकरणं प्रमाणम् । नीयन्ते प्राप्यन्ते इति नयाः, प्राप्तिश्च वस्त्वंशावधारणरूपैव फलम्, करणव्युत्पत्त्या च प्रापका नया:-तादृशावधारणजनकप्रमातृतात्पर्यविशेषाः, तदाकलिताः शब्दविशेषा उपचाराद् नयाः ।
___ अनन्तधर्मात्मकवस्तुनिर्णयस्य प्रमाणेनैव जातत्वेऽपि, यथा परस्परविरुद्धानां धर्माणामेकर्मिणि समावेशासम्भवाद्, धर्मधर्मभावनिबन्धनतादात्म्यमप्येकत्र वस्तुनि दुर्घटमिति शङ्काशङ्कसमुद्धरणाय विरोधभञ्जकावच्छेदकभेदावगतये भवति तत्र नयापेक्षा, अन्यथाऽनन्तधर्मात्मकवस्तुनि निर्णीते तदेकदेशरूपाणां तत्तद्धर्माणां नयविषयाणामपि निर्णीतत्वादफलमेव नयकल्पनं प्रसज्येत । तथाऽनुयोगद्वारतया शब्दार्थरचनाविशेषलक्षणा निक्षेपा अपि साफल्यमञ्चन्ति, व्याख्येयग्रन्थान्तर्गतमङ्गलादिपदाद् नाममङ्गलादिलक्षणमङ्गलाद्यात्मकविशेष्यवस्तुस्वरूपविशेषनिर्णयस्य निक्षेपादेव भावात् ।
यथाहि सैन्धवपदस्य लवणेऽश्वे च शक्तियुत्पादिताऽस्ति । तत्र 'सैन्धवमानये'त्युक्तौ
१. ययोरर्थयोरन्यतरस्य ज्ञानं येन भवति तेनैव तदितरस्याऽपि ज्ञानमवश्यं भवति चेत् तौ अर्थो तुल्यवित्तिवेद्यौ । २. कृतिः कर्तृनिष्ठा भवति, धात्वर्थः फलं च कर्मनिष्ठं भवति । कर्तृप्रत्ययस्थले यथा कृतेः प्राधान्याद् विशेष्यता,
तथैव कर्मप्रत्ययस्थले धात्वर्थस्य प्राधान्याद् विशेष्यतेत्याशयः । उपरि दर्शितः प्रथमोऽन्वय एतदनुसारमेव । ३. 'निक्षेपान् निरूपयिष्यामी'त्यादिप्रतिज्ञाभिरुक्ताकारकं ज्ञानं जन्यते इति प्रतिज्ञा ज्ञानजनिका । प्रतिज्ञास्वरूपमेव
'निक्षेपा निरूप्यन्ते' इति वाक्यम् । ४. परस्परविरुद्धानां धर्माणामेकत्र समावेशे यद्यपि विरोधः, तथापि स एकावच्छेदेन समावेशे एव, न
त्ववच्छेदकभेदेन समावेशे इति विरोधबुद्धिभञ्जकावच्छेदकभेदज्ञानार्थं नयानामपेक्षा ।