________________
२२८
सटीकजैनतर्कभाषायां भोजनप्रकरणसहकाराद् लवणरूपार्थगतिः, यात्राप्रकरणसहकारादश्वविशेषरूपार्थगतिर्भवति । यदि तत्र कोशेन शक्तिर्युत्पादितैव न भवेत्, प्रकरणादयोऽपि किं कुर्युः ? सन्ति भोजनोपयोगिनो बहवो यात्रोपयोगिनश्चेति अप्रतिपत्तिरेव ततो वाक्याद् भवेद्, बहूनां वैमत्यं विप्रतिपत्तिा, साधकबाधकप्रमाणाभावे संशयो वा स्यात् । कोशेन विशिष्याऽर्थद्वये शक्तौ व्युत्पादितायां सत्यां तु तत्र प्रकरणादिनाऽप्रतिपत्त्यादीनि निरस्याऽर्थविशेषावगतिर्भवति । तथा प्रकृतेऽपि सत्सु नामादिनिक्षेपेषु प्रकरणादिवशेनाऽप्रतिपत्त्यादीनि व्युदस्य नाममङ्गलस्योपयोगे मङ्गलपदेन नाममङ्गलस्य, एवं स्थापनामङ्गलाद्युपयोगे स्थापनामङ्गलादेः प्रतिपत्तिरिति तद्रूपयथास्थानविनियोगफलवत्त्वेन फलवन्तो निक्षेपा इत्याशयेन प्रकरणादिवशेनेत्याधुक्तम् ।
उक्ताशयस्फोरणायाऽऽहमङ्गलादिपदार्थनिक्षेपा नाममङ्गलादिविनियोगोपपत्तेश्च निक्षेपाणां फलवत्त्वम् । उक्तार्थे प्राचां सम्मतिमुपदर्शयतितदुक्तम्-"अप्रस्तुतार्थापाकरणात् प्रस्तुतार्थव्याकरणाच्च निक्षेपः फलवान् ।"
अप्रस्तुतार्थनिराकरणे प्रस्तुतार्थप्रकाशने च निक्षेपस्य प्रकरणादयः सहकारिणो भवन्तीति बोध्यम् ।
यद्यपि सत्सङ्ख्यादिकमप्यनुयोगाङ्गम्, तथापि विशेषणविशेष्यभावेन विशिष्टार्थगतौ तद् निबन्धनम् । निक्षेपास्तु अखण्डस्यैव विशेष्यस्वरूपविशेषस्याऽवगतौ निबन्धनम्, यतो न नामघो नामविशिष्टो घटः, किन्तु यस्य कस्यचिद् घट इति नाम क्रियते, स वस्तुविशेषोऽखण्ड एव नामघटः । एवं स्थापनाघयदयोऽपीति ।
__ शब्दार्थरचना चाऽत्र कर्मधारयसमासलक्षणैव । अन्यत्र कर्मधारयस्य विशेष्यपदार्थे विशेषणपदार्थाभेदबोधकत्वम्, प्रकृतस्य तु विशेषणविशेष्यपदाभ्यां सम्भूय विशेष्यस्वरूपविशेषावबोधकत्वम् । तथाऽत्र विशेषणवाचकपदं केवलान्वयितानवच्छेदकधर्मप्रवृत्तिनिमित्तकमेव-नाऽतो ज्ञेयघट इत्यादेनिक्षेपत्वम्, न वा ततो विशेष्यरूपविशेषस्याऽखण्डस्य प्रतीति:ज्ञेयत्वविशिष्टघटदेरेव विशेषणविशेष्यभावेन ततः प्रतीतेः । अत एव मृद्धटसुवर्णघटेत्यादेरपि न निक्षेपत्वमित्यपि बोध्यम् । १. मङ्गलपदार्थनिक्षेपा इत्थम्-१. 'नाम च तन्मङ्गलं चेति व्युत्पत्तेः कस्यचित् पुंसः पदार्थस्य वा 'मङ्गल' इति
नाम क्रियते तद, 'मङ्गल' इति वर्णावलीमात्रं वा नाममङ्गलमुच्यते । 'नाम्ना मङ्गल'मिति व्युत्पत्तेर्मङ्गलनामवान् पदार्थो नाममङ्गलम् । २. काष्ठादौ मङ्गलबुद्ध्या स्वस्तिकालेखनादि स्थापनामङ्गलम् । ३. स्वर्णमाल्येक्षुदध्यादि द्रव्याणि द्रव्यमङ्गलम् । ४. जिननमनादिकं भावमङ्गलम् । २. निक्षेपे विशेष्यस्वरूपविशेषस्याऽखण्डस्य बोधकत्वमिति स्वीकारादेव ।