________________
२२९
निक्षेपविशेषनिरूपणम्
निक्षेपान् विभजतेते च सामान्यतः चतुर्धा-नामस्थापनाद्रव्यभावभेदात् ।
नामनिक्षेप-स्थापनानिक्षेप-द्रव्यनिक्षेप-भावनिक्षेपभेदेन निक्षेपाः सामान्यतः चतुष्प्रकारा इत्यर्थः।
नामनिक्षेपं निरूपयतितत्र प्रकृतार्थनिरपेक्षा नामार्थान्यतरपरिणतिर्नामनिक्षेपः ।
तत्र-नामनिक्षेपादिचतुर्विधनिक्षेपेषु । परिणतिरित्यन्तं लक्षणम्, नामनिक्षेप इति लक्ष्यम् । इन्द्रशब्दस्य प्रकृतोऽर्थः स्वर्गाधिपत्यादिगुणविशिष्टः सहस्राक्षः शचीपतियों वासवः, तद् नाऽपेक्षते इति प्रकृतार्थनिरपेक्षा । तत्सापेक्षत्वे नामेन्द्रो गोपालदारको वासववत् तत्पर्यायशक्रादिशब्दवाच्योऽपि भवेत्, स्वर्गाधिपत्यादिकमप्यनुभवेच्च । एवम्भूता या नामार्थान्यतरपरिणतिः । यद्यपि यस्य गोपालादारकस्येन्द्र इति नाम क्रियते तन्नाम-नामवतोरभेदोपचाराद् गोपालदारकात्मकार्यपरिणतिरेव नामेन्द्रः, तथापि तद्वाचकत्वाद् नाम्नोऽप्युचारतः परिणतिरित्येवं नामार्थान्यतरपरिणतिः सा नामनिक्षेप इत्यर्थः ।
उदाहरति
यथा सङ्केतितमात्रेणाऽन्यार्थस्थितेनेन्द्रादिशब्देन वाच्यस्य गोपालदारकस्य शक्रादिपर्यायशब्दानभिधेया परिणतिरियमेव वा यथाऽन्यत्राऽवर्तमानेन यदृच्छाप्रवृत्तेन डित्थडवित्थादिशब्देन वाच्या ।
सङ्केतितमात्रेणेति । आधुनिकपित्रादिसङ्केतितत्वमात्रेणेत्यर्थः । मात्रपदेन वृद्धपरम्परागतसङ्केतितत्वस्य व्यवच्छेदः । सर्वे सर्वार्थवाचका-इत्यत्र इन्द्रपदस्य गोपालदारकेणाऽपि समं वाच्यवाचकभावसम्बन्धोऽस्त्येव, परं वृद्धपरम्परागतसङ्केताभिव्यक्त एव शाब्दबोधजनकतया शब्दार्थसम्बन्धः स नाऽन्यथेति तथाभूतविशिष्टवाच्यवाचकभावस्याऽपि व्यवच्छेदः सम्भवत्येव। सङ्केतितमात्रेणेत्यस्य वाच्येत्यनेनाऽन्वयः । अन्यार्थस्थितेन-आदितात्पर्य
'तत्र प्रकृतार्थ०'-अत्र रत्नप्रभायामुद्धतः 'पज्जायाणभिधेयं०' इति भाष्यपाठः समस्ति । तदनन्तरमयं पाठः
"यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् ।
पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥" अस्या आर्याया व्याख्या अनुयोगद्वारटीकातः [पृ० ११] अवसेया ।