________________
सटीकजैनतर्कभाषायां गृहीतसङ्केतबलाद् गोपालदारकभिन्नवासवरूपार्थस्थितेन । यत एवाऽन्यार्थस्थितत्वमिन्द्रादिशब्दस्य, तत एव तेन सङ्केतितमात्रेण वाच्यस्य गोपालदारकस्य या परिणतिः सा शक्रादिपर्यायशब्दानभिधेया- तस्यां परिणताविन्द्रादिशब्दस्यैवाऽऽधुनिकसङ्केतो, न तु तत्समानार्थकस्याऽपि शक्रादिशब्दस्येति । एवम्भूता परिणतिर्नामनिक्षेपो नामेन्द्र इत्यर्थः ।
२३०
अथवा यस्य शब्दस्य न पर्यायान्तरम्, नाऽपि कुत्राऽप्यर्थेऽनादितात्पर्यमूलकसङ्केतः, तस्याऽपि डित्थडवित्थादिशब्दस्य गोपालदारकेऽधुना सङ्केतः क्रियते, तत्सङ्केतमात्रेण डित्थडवित्थादिशब्देन वाच्यस्य गोपालदारकस्य परिणतिरपि नामनिक्षेपो नामडित्थो नामडवित्थ इत्याह- इयमेवेति । इयमेव-गोपालदारकस्य परिणतिरेवेत्यर्थः । वा= अथवा | यथेत्युपदर्शनार्थः । अन्यत्राऽवर्त्तमानेन = गोपालदारक भिन्नार्थे सङ्केतसम्बन्धेनाऽवर्त्तमानेन, यदृच्छाप्रवृत्तेन=अभिनवसङ्केतकर्तृपुरुषेच्छासम्भूतेन ।
गोपालदारकस्य या परिणतिः सा गोपालदारकात्मकपिण्डरूपार्थनिष्ठैव, न त्विन्द्रादिनामनिष्ठेत्येकमात्रनिष्ठत्वेऽप्यन्यतरनिष्ठत्वसम्भवेऽपि शब्दनिष्ठत्वस्याऽभावतः, तस्याऽन्यतरत्वेन सङ्ग्रहो निष्प्रयोजन एवेत्यत आह
तत्त्वतोऽर्थनिष्ठा उपचारत: शब्दनिष्ठा च ।
तत्त्वतः=परमार्थतः । यतो विभिन्नावच्छेद्यमर्थनिष्ठत्वं शब्दनिष्ठत्वं चाऽतः शब्दार्थो - भयपरिणतिरित्यनुक्त्वा शब्दार्थान्यतरपरिणतिरित्येवमुक्तिरपि सुसङ्गतेति ।
यत एव किञ्चिन्नामापेक्षया यावद्द्रव्यभावित्वम्, किञ्चिन्नामापेक्षया चाऽयावद्द्रव्यभावित्वमप्यस्या उपपन्नमिति द्वैविध्यमप्याह
मेर्वादिनामापेक्षया यावद्द्रव्यभाविनी, देवदत्तादिनामापेक्षया चाऽयावद्द्रव्यभाविनी । तृतीयप्रकारोऽपि नामनिक्षेपस्य भवति । उदाहरणमात्रोपदर्शनेन तत्स्वरूपमावेदयतियथा वा पुस्तकपत्रचित्रादिलिखिता वस्त्वभिधानभूतेन्द्रादिवर्णावली ।
एतावता नाम्नोऽपि नामनिक्षेपत्वम् । ततश्च प्रधानीभूते इन्द्रशब्दार्थे वासवे इन्द्र इति यद् नाम तदपि नामेन्द्रः, तस्य सहस्राक्षाकारावयवसन्निवेशः स्थापनेन्द्रः, तत्कारणीभूतपूर्वावस्थाकलितरूपो द्रव्येन्द्रः, वर्त्तमानस्वर्गाधिपत्यादिगुणभाक् पर्यायान्तरप्रतिपाद्यश्च भावेन्द्र इति निक्षेपचतुष्टयसमन्वय इति बोध्यम् ।
१. 'इन्द्र इति लिखे' त्यादिषु इकारादिसमुदायस्येन्द्रपदवाच्यत्वात्तत्रापि नामनिक्षेपः ।
२. अर्थाभिधानप्रत्ययाः तुल्यनामधेया इति वचनादेकशब्दवाच्यत्वेन शब्दार्थयोस्तादात्म्यमिति घट इति नामाऽपि