________________
२३१
निक्षेपविशेषनिरूपणम् नामनिक्षेपस्वरूपप्रतिपादप्रवणो विशेषावश्यकग्रन्थो यथा
"पज्जायाणभिधेयं, ठिअमण्णत्थे तयत्थनिरवेक्खं ।
जाइच्छिअंच नाम, जावदव्वं च पाएण ॥" (विशेषा० २५) व्याख्या-"यत् कस्मिंश्चिद् भृतकदारकादौ इन्द्राद्यभिधानं क्रियते तद् नाम भण्यते । कथम्भूत तदित्याह-पर्यायाणां-शक्रपुरन्दरपाकशासनशतमखहरिप्रभृतीनां समानार्थवाचकानां ध्वनीनाम्, अनभिधेयम् अवाच्यम् । नामवतः पिण्डस्य सम्बन्धी धर्मोऽयं नाम्न्युपचरितः, स हि नामवान् भृतकदारकादिपिण्ड: किलैकेन सङ्केतितमात्रेणेन्द्रादिशब्देनैवाऽभिधीयते, न तु शेषैः शक्रपुरन्दरपाकशासनादिशब्दैः । अतो नामयुक्तपिण्डगतधर्मो नाम्न्युपचरितः पर्यायानभिधेयमिति ।
"पुनरपि कथम्भूतं तन्नामेत्याह-ठिअमण्णत्थेत्ति । विवक्षितभृतकदारकादिपिण्डादन्यश्चाऽऽसावर्थश्चाऽन्यार्थो देवाधिपादिः, सद्भावतः तत्र यत् स्थितं, भृतकदारकादौ तु सङ्केतमात्रतयैव वर्त्तते, अथवा सद्भावतः स्थितमन्वर्थे अनुगतः सम्बद्धः परमैश्वर्यादिकोऽर्थो यत्र सोऽन्वर्थः शचीपत्यादिः, सद्भावतः तत्र स्थितम् । भृतकदारकादौ तर्हि कथं वर्तते ? इत्याहतदर्थनिरपेक्षम् । तस्येन्द्रादिनाम्नोऽर्थः तदर्थः परमैश्वर्यादिः, तस्य निरपेक्षं सङ्केतमात्रेणैव तदर्थशून्ये भृतकदारकादौ वर्तते इति पर्यायानभिधेयम्, स्थितमन्यार्थे अन्वर्थे वा तदर्थनिरपेक्षं यत् क्वचिद् भृतकदारकादौ इन्द्राद्यभिधानं क्रियते तद् नाम इतीह तात्पर्यार्थः ।।
___"प्रकारान्तरेणाऽपि नाम्नः स्वरूपमाह-यादृच्छिकं चेति । इदमुक्तं भवति-न केवलमनन्तरोक्तम्, किन्त्वन्यत्राऽवर्त्तमानमपि यद् एवमेव यदृच्छया केनचिद् गोपालदारकादेरभिधानं क्रियते तदपि नाम, यथा डित्थो डवित्थ इत्यादि ।
___ "इदश्चोभयरूपमपि कथम्भूतमित्याह-यावद्द्व्यं च प्रायेणेति । यावदेतद्वाच्यं द्रव्यमवतिष्ठते तावदिदं नामाऽप्यवतिष्ठते इति भावः । किं सर्वमपि ? नेत्याह-प्रायेणेति । मेरु-द्वीपसमुद्रादिकं नाम प्रभूतं यावद्रव्यभावि दृश्यते, किञ्चित्तु अन्यथाऽपि समीक्ष्यते-देवदत्तादिनामवाच्यानां द्रव्याणां विद्यमानानामपि अपरापरनामपरावर्तस्य लोके दर्शनात् । सिद्धान्तेऽपि यद् उक्तं-नाम आवकहियं ति, तत् प्रतिनियतजनपदादिसंज्ञामेवाऽङ्गीकृत्य, यथोत्तराः कुरव इत्यादि।
घट एव । तुल्यपरिमाणत्वेन घटादिरूपार्थेन समं चित्रस्थघटादिवस्तुनोऽभेदेन घटाकारोऽपि घट एवमुख्यार्थस्याऽभावादेव तत्र 'प्रतिकृति'व्यपदेशः । परिणामपरिणामिभावसम्बन्धस्याऽत्यन्तभेदेऽनुपपन्नत्वेन मृत्पिण्डादिद्रव्यघटोऽपि घट एव । भावघटस्य तु घटत्वं निविवादमेवेति चत्वारोऽपि निक्षेपा नयसम्मताः ।