Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 272
________________ निक्षेपचतुष्टयव्यवस्थापनम् २४१ तोत्तरतत्तद्वर्णत्वलक्षणानुपूर्वीस्वरूपः शब्दे संस्थानविशेषः, घटदौ च कम्बुग्रीवाद्यवयवसन्निवेशलक्षणसंस्थानविशेष इत्येवमाकारस्य सर्वत्राऽनुभूयमानस्याऽपलपितुमशक्यत्वादित्याहनीलाकारेति । सर्वस्य वस्तुनो द्रव्यात्मकत्वं व्यवस्थापयति द्रव्यात्मकं च सर्वम्-उत्फणविफणकुण्डलिताकारसमन्वितसर्पवद् विकाररहितस्याऽऽविर्भावतिरोभावमात्रपरिणामस्य द्रव्यस्यैव सर्वत्र सर्वदाऽनुभवात् । अनेकावस्थानुगामित्वरूपं द्रव्यत्वम् । तत्राऽनुगाम्यननुगामिनोर्मध्येऽनुगामिनो वस्तुनो वस्तुतो वस्तुत्वम्, अनुगामिरूपं चाऽन्ततः सत्स्वरूपं सर्वत्राऽनुभूयते एवेति तद्रूपस्य द्रव्यस्य नाऽपलापसम्भव इति दृष्टान्तोपदर्शनपुरस्सरमाह-उत्फणेति । उद्गता-प्रसारिता फणा यस्य स उत्फणः, विगता-सङ्कचिता फणा यस्य स विफणः, कुण्डलिताकारः कुण्डलस्वरूपतां गोलकरूपतां प्राप्तः कुण्डलित आकारो यस्य स कुण्डलिताकार इति त्रिभिरपि पर्यायैः समन्वितो यः सर्पः तद्वत् । उत्फणोऽपि सर्पः सर्प एव, एवं विफणः कुण्डलिताकारश्चेत्यवस्थाभेदेऽपि यथैक एव सर्पः सर्वदानुगतः तथा द्रव्यमपि । यथाहि तत्त्वत उत्फणविफणादयो न सर्पाः तत्त्वान्तरम्, तथा पर्याया अपि । द्रव्यमेव तत्तत्पर्यायात्मनाऽऽविर्भूतस्वभावं तत्तत्परिणामकं भवत् तत्तद्रूपेण व्यपदिश्यते । तत्तत्पर्यायतिरोभावे स्वस्वरूपव्यवस्थितं द्रव्यमिति गीयते । न विकारो नामतः तत्त्वान्तरमित्याहविकाररहितस्येति । एतच्च द्रव्यार्थिकनयमवलम्ब्येति बोध्यम् । सर्वस्य वस्तुनो भावात्मकत्वं व्यवस्थापयति भावात्मकं च सर्व-परापरकार्यक्षणसन्तानात्मकस्यैव तस्याऽनुभवादिति चतुष्टयात्मकं जगदिति नामादिनयसमुदयवादः । सन्तानात्मकस्यैवेत्येवकारोपादानमत्राऽपि पर्यायाथिकनयमाश्रित्य । तस्य सर्वस्य । उपसंहरति-इतीति । इति एवंदिशा । चतुष्टयात्मकं नामस्थापनाद्रव्यभावात्मकम् । निक्षेपचतुष्टयस्य सर्वव्यापकत्ववादोऽयं प्रमाणवाद एवेत्याह-इति नामादीति । नामादीत्यनन्तरं निक्षेपस्य वक्तव्यत्वे यत् तत्स्थाने नयेत्यभिधानं, तत् तत्तन्निक्षेपाभ्युपगन्ता नयोऽपि तत्तन्निक्षेपशब्दाभिलाप्य इति नामाभ्युपगन्ता नयो नामनयः, स्थापनाभ्युपगन्ता नयो स्थापनानयः, एवं द्रव्यनयो भावनय इति वेदनीयमिति । 'चतुष्टयात्मकम्'-अत्र रत्नप्रभायामवतारितो 'घटपटादिक मिति भाष्यपाठ एव समस्ति । विशेषा० बृ० गा० ७३ ।

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342