Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
१८६
सटीकजैनतर्कभाषायां
चतुर्थभङ्गं निरूपयतिस्यादवक्तव्यमेवेति युगपत्प्राधान्येन विधिनिषेधकल्पनया चतुर्थः ।
आद्याः त्रयः सकला, अन्त्याः चत्वारो विकलादेशा इत्युपगच्छद्भिः सूरिभिरयं भङ्गः तृतीयतया, एतत्स्थाने च 'स्यादस्त्येव स्यान्नास्त्येवे'ति भङ्गः प्रथ्यते । पूर्वत्र विधिनिषेधयोः क्रमिकप्राधान्यकल्पना, अत्र तु तयोर्युगपत्प्राधान्यकल्पना बीजम् । कथञ्चिदवक्तव्यत्वाख्यधर्ममात्रप्रकारकघटादिविशेष्यकबोधोऽनेन भङ्गेन जन्यते, तत एव चोक्तभङ्गत्रयादस्य भेदः । निरुक्तबोधजनकवाक्यत्वं चतुर्थभङ्गस्य लक्षणम् ।
विधिनिषेधयोर्युगपत्प्राधान्यविवक्षाया युगपत्प्रधानीभूतविधिनिषेधोभयप्रतिपादकस्यैकस्य कस्यचिद् वचनस्याऽवक्तव्यशब्दभिन्नस्याऽभावात् कथञ्चिदवक्तव्यत्वमुपपादयति
एकेन पदेन युगपदुभयोर्वक्तुमशक्यत्वात् । 'शतृशानचौ स'दित्यादौ साङ्केतिकपदेनाऽपि क्रमेणाऽर्थद्वयबोधनात् । अन्यतरत्वादिना कथञ्चिदुभयबोधनेऽपि प्रातिस्विकरूपेणैकपदादुभयबोधस्य ब्रह्मणाऽपि दुरुपपादत्वात् ।
उभयो:-विधिनेषधयोः । शतृशानच्-सङ्केतित-'सत्'पदाद् यथा शतृशानचोः प्रतीतिः, तथैकेन विधिनिषेधोभयसङ्केतितेन तदुभयप्रतीतिर्भविष्यतीति कश्चिद् ब्रूयात्, तत्राऽऽहशतृशानचाविति । यद्यपि तदुभयसङ्केतितं 'सत्' पदम्, तथापि तेन तद्द्वयबोधस्तु क्रमेणैव, न तु युगपदेव । विधिनिषेधोभयसङ्केतितैकपदविशेषादपि क्रमिकतदुभयबोध एव भवेदित्यर्थः । विधिनेषधान्यतरत्वेन रूपेण तदुभयसङ्केतितपदाद् युगपत् तदुभयबोधस्तु न प्रत्येकासाधारणास्तित्वनास्तित्वादिरूपेण । तादृशरूपेणैव तु युगपत्प्रधानतया विवक्षितौ विधिनिषेधावित्याहअन्यतरत्वादिनेति । आदिपदाद् उभयत्वप्रमेयत्वज्ञेयत्ववाच्यत्वादेरुपग्रहः । अन्यत् सुगमम् ।
अत्र समासवचनं तत्प्रतिपादकं न सम्भवति-समासेषु बहुव्रीहेरन्यपदार्थप्रधानत्वाद्, अत्र तूभयप्राधान्यविवक्षणात्, अव्ययीभावस्तु नैतादृशेऽर्थे प्रवर्तते, द्वन्द्वस्तु द्रव्यवृत्तिर्नाऽत्रोपयुज्यते, गुणवृत्तिरपि द्रव्याश्रितगुणप्रतिपादको न प्राधान्येन गुणप्रतिपादनप्रगल्भः । उत्तरपदार्थप्रधानतत्पुरुषस्याऽपि नाऽत्राऽवकाशः । सङ्ख्यावाचिपूर्वपदकस्य द्विगोस्तु नेदृशोऽर्थो विषयः । कर्मधारयोऽपि गुणाधारद्रव्यविषयो नाऽत्र क्रमते । समासान्तरं तु नाऽस्त्येव ।
वृत्त्यसम्भिन्नार्थकस्य वाक्यस्याऽपि कस्यचिद् न तथाभूतधर्मद्वयप्रतिपादकत्वमित्या
'शतृशानचौ'-"तौ सदिति शतृशानयोः सङ्केतितसच्छब्दवत् द्वन्द्ववृत्तिपदं तयोः सकृदभिधायकम् इत्यनेनापास्तम्, सदसत्त्वे इत्यादिपदस्य क्रमेण धर्मद्वयप्रत्यायनसमर्थत्वात् ।" तत्त्वार्थश्लोकवा० पृ० १४० ।

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342