Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 215
________________ १८४ सटीकजैनतर्कभाषायां महावाक्यलक्षणसप्तभङ्ग्या अपि प्रमाणवाक्यत्वं न स्याद् अन्धसमूहस्याऽन्धत्ववत् । इयांस्तु विशेषः-प्रत्येकं भङ्गेषु प्रतिनियतैकैकधर्मप्राधान्यावबोधकत्वेन द्वितीयधर्माद्याकाङ्क्षासद्भावाद् न निराकाङ्क्षार्थावबोधकत्वम् । सप्तभङ्ग्यास्तु सत्त्वाद्येकधर्ममाश्रित्य सप्तविधधर्माणामेव सम्भवेन सप्तविधधर्माणामपि प्राधान्यतोऽवबोधकत्वेन निराकाङ्क्षार्थावबोधकत्वम्, इत्येतावता महावाक्यत्वं तस्या इति । परिपूर्णार्थावबोधकत्वं तस्या यथा सकलादेशमहिम्ना, तथा प्रत्येकभङ्गानामपि-अन्यार्थसम्बन्धिपर्यायाणामपि परपर्यायविधया एकैकार्थपर्यायत्वेन, स्वगताशेषस्वपर्यायात्मकधर्माणां च स्वपर्यायविधया तथात्वेन, सर्वाशेषधर्मप्रतिभासनमन्तरेण परिपूर्णार्थावबोधासम्भवात् । तद् आश्रित्यैवोच्यते 'य एकं जानाति स सर्वं जानाति, यः सर्वं जानाति स एकं जानाति ।' इति, 'एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टा, एको भावस्तत्त्वतस्तेन दृष्टः ॥' इत्यपि, तथा-'स्याद्वाद-केवलज्ञाने सकलार्थविभासने' इति च । एवं च द्वितीयभङ्गेऽपि गौणतयाऽस्तित्वादिप्रतिभासकत्वमस्ति । परं प्राधान्येन निषेधविवक्षयैव 'स्यान्नास्त्येव सर्व'मिति द्वितीयभङ्गः । अस्य प्राधान्येन घटादिविशेष्यकनास्तित्वाद्यात्मकनिषेधधर्ममात्रप्रकारकबोधजनकवाक्यत्वं लक्षणम् । प्रथमस्य तु प्राधान्येन घटादिविशेष्यकास्तित्वाद्यात्मकविधिधर्ममात्रप्रकारकबोधजनकवाक्यत्वम् । विधिनिषेधौ च स्यादर्थकथञ्चिदालिङ्गितावेव तत्र प्रविष्टौ । अत्र कथञ्चिदर्थः परद्रव्यक्षेत्रकालभावापेक्षयेति, भावना तु पूर्ववदेव । अत्राऽसत्त्वं काल्पनिकमिति विषयाभावाद् न द्वितीयभङ्गसम्भव इति बौद्धमतमाशङ्क्य प्रतिक्षिपति न चाऽसत्त्वं काल्पनिकं-सत्त्ववत् तस्य स्वातन्त्र्येणाऽनुभवात् । अन्यथा विपक्षासत्त्वस्य तात्त्विकस्याऽभावेन हेतोः त्रैरूप्यव्याघातप्रसङ्गात् । यथा सत्त्वं स्वातन्त्र्येणाऽनुभूयते तथाऽसत्त्वमपीति नाऽसत्त्वस्याऽपि काल्पनिकत्वम् । तस्य काल्पनिकत्वे वा विपक्षासत्त्वस्य कल्पनात्, पक्षसत्त्वसपक्षसत्त्वैतद्रूपमेव हेतुरूपं भवेदिति विपक्षासत्त्वरूपमादाय हेतोः त्रैरूप्याभिधानं बौद्धस्य व्याहतं स्यादिति प्रतिक्षेपहेतुमुपन्यस्यति-सत्त्ववदिति । तस्य-असत्त्वस्य, अन्यथा असत्त्वस्य काल्पनिकत्वाभ्युपगमे । १. हेतोः पक्षवृत्तित्व-सपक्षसत्त्व-विपक्षासत्त्वलक्षणत्रैरूप्याभिधानम् ।

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342