________________
१८४
सटीकजैनतर्कभाषायां महावाक्यलक्षणसप्तभङ्ग्या अपि प्रमाणवाक्यत्वं न स्याद् अन्धसमूहस्याऽन्धत्ववत् ।
इयांस्तु विशेषः-प्रत्येकं भङ्गेषु प्रतिनियतैकैकधर्मप्राधान्यावबोधकत्वेन द्वितीयधर्माद्याकाङ्क्षासद्भावाद् न निराकाङ्क्षार्थावबोधकत्वम् । सप्तभङ्ग्यास्तु सत्त्वाद्येकधर्ममाश्रित्य सप्तविधधर्माणामेव सम्भवेन सप्तविधधर्माणामपि प्राधान्यतोऽवबोधकत्वेन निराकाङ्क्षार्थावबोधकत्वम्, इत्येतावता महावाक्यत्वं तस्या इति । परिपूर्णार्थावबोधकत्वं तस्या यथा सकलादेशमहिम्ना, तथा प्रत्येकभङ्गानामपि-अन्यार्थसम्बन्धिपर्यायाणामपि परपर्यायविधया एकैकार्थपर्यायत्वेन, स्वगताशेषस्वपर्यायात्मकधर्माणां च स्वपर्यायविधया तथात्वेन, सर्वाशेषधर्मप्रतिभासनमन्तरेण परिपूर्णार्थावबोधासम्भवात् । तद् आश्रित्यैवोच्यते
'य एकं जानाति स सर्वं जानाति, यः सर्वं जानाति स एकं जानाति ।' इति, 'एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः ।
सर्वे भावाः सर्वथा येन दृष्टा, एको भावस्तत्त्वतस्तेन दृष्टः ॥' इत्यपि, तथा-'स्याद्वाद-केवलज्ञाने सकलार्थविभासने' इति च ।
एवं च द्वितीयभङ्गेऽपि गौणतयाऽस्तित्वादिप्रतिभासकत्वमस्ति । परं प्राधान्येन निषेधविवक्षयैव 'स्यान्नास्त्येव सर्व'मिति द्वितीयभङ्गः । अस्य प्राधान्येन घटादिविशेष्यकनास्तित्वाद्यात्मकनिषेधधर्ममात्रप्रकारकबोधजनकवाक्यत्वं लक्षणम् । प्रथमस्य तु प्राधान्येन घटादिविशेष्यकास्तित्वाद्यात्मकविधिधर्ममात्रप्रकारकबोधजनकवाक्यत्वम् । विधिनिषेधौ च स्यादर्थकथञ्चिदालिङ्गितावेव तत्र प्रविष्टौ । अत्र कथञ्चिदर्थः परद्रव्यक्षेत्रकालभावापेक्षयेति, भावना तु पूर्ववदेव ।
अत्राऽसत्त्वं काल्पनिकमिति विषयाभावाद् न द्वितीयभङ्गसम्भव इति बौद्धमतमाशङ्क्य प्रतिक्षिपति
न चाऽसत्त्वं काल्पनिकं-सत्त्ववत् तस्य स्वातन्त्र्येणाऽनुभवात् । अन्यथा विपक्षासत्त्वस्य तात्त्विकस्याऽभावेन हेतोः त्रैरूप्यव्याघातप्रसङ्गात् ।
यथा सत्त्वं स्वातन्त्र्येणाऽनुभूयते तथाऽसत्त्वमपीति नाऽसत्त्वस्याऽपि काल्पनिकत्वम् । तस्य काल्पनिकत्वे वा विपक्षासत्त्वस्य कल्पनात्, पक्षसत्त्वसपक्षसत्त्वैतद्रूपमेव हेतुरूपं भवेदिति विपक्षासत्त्वरूपमादाय हेतोः त्रैरूप्याभिधानं बौद्धस्य व्याहतं स्यादिति प्रतिक्षेपहेतुमुपन्यस्यति-सत्त्ववदिति । तस्य-असत्त्वस्य, अन्यथा असत्त्वस्य काल्पनिकत्वाभ्युपगमे ।
१. हेतोः पक्षवृत्तित्व-सपक्षसत्त्व-विपक्षासत्त्वलक्षणत्रैरूप्याभिधानम् ।