________________
सप्तभङ्गी
१८५
तृतीयभङ्गं निरूपयति
स्यादस्त्येव स्यान्नास्त्येवेति प्राधान्येन क्रमिकविधिनिषेधकल्पनया तृतीयः ।
क्रमिकप्रधानभावेन विधिनिषेधोभयविवक्षया 'स्यादस्त्येव स्यान्नास्त्येव सर्व' मिति तृतीयो भङ्ग इत्यर्थः । अयमस्य निष्कर्ष: यदा घटस्य स्वद्रव्यक्षेत्रकालभावापेक्षयाऽस्तित्वं परद्रव्यक्षेत्रकालभावापेक्षया नास्तित्वं च क्रमिकप्रधानभावकल्पनास्पदं भवति, तदा क्रमिकप्रधानभावापन्नकथञ्चिदस्तित्वकथञ्चिन्नास्तित्वों भयप्रकारकघटविशेष्यकबोधजनकवाक्यात्मा तृतीयो भङ्गः । तस्य निरुक्तबोधजनकवाक्यत्वं लक्षणम् ।
प्रथमभङ्गद्वितीयभङ्गाभ्यां केवलकथञ्चिदस्तित्वप्रकारकबोधस्य केवलकथञ्चिन्नास्तित्वप्रकारकबोधस्य च जननम्, तृतीयेन 'एकत्र द्वय ' मिति न्यायेन । यथा 'चैत्रो दण्डी कुण्डली चे'त्यत्र दण्डकुण्डलोभयप्रकारक - चैत्रविशेष्यकबोध एक उपजायते तथा प्रकृतेऽपि । परस्परविशेषणविशेष्यभावापन्नतया तु विधिनिषेधयोरत्र विवक्षैव नाऽस्ति, येन - प्रथमद्वितीयभङ्गाभ्यामविशिष्टयोविधिनिषेधयोर्बोधः, अनेन तु परस्परविशेषणविशेष्यभावापन्नविधिनिषेधबोध - इति वैलक्षण्यमभिधातुं शक्येत । तथाविवक्षायां तु विशेषणस्य गौणत्वं विशेष्यस्य च प्राधान्यं विशिष्टनियतं भवेद्, न तूभयप्राधान्यम् । अभिमतं तु क्रमिकोभयप्राधान्यम् ।
इदं तु स्याद्- एवं कल्पनायां वस्तुनः प्रतिपर्यायं विधिनिषेधौ द्वावेव धर्मों, बोधस्तु प्रकारताभेदनिबन्धनः सप्तविध इति तज्जनका भङ्गाः सप्तेति । न चैतद् न्याय्यम्, प्रतिपर्यायं धर्माणां सप्तविधत्वेन सप्तविधसंशयजिज्ञासामूलकसप्तविधोत्तरवाक्यरूपभङ्गानामिष्टेः, उक्ताभ्युपगमे तु तद्विरोधः । किन्तु
'भागे सिंहो नरो भागे, योंऽशो भागद्वयात्मकः । तमभागं विभागेन, नरसिंहं प्रचक्षते ॥ '
इति वचनाद् नरसिंहात्मिकाऽखण्डव्यक्तिर्नरसिंहाभ्यां भिन्नाऽपि, ताभ्यामेव विभिन्नभागरूपतया कल्पिताभ्यां निरूप्यमाणा नरसिंहबोधे भासते, तथाऽस्तित्वनास्तित्वविलक्षणधर्मविशेषोऽस्तित्वपर्यायमाश्रित्य - घटादिधर्मिणि समस्ति । स एव धर्मः क्रमिकप्रधानभावविवक्षितकथञ्चिदस्तित्वनास्तित्वाभ्यां निरूप्यमाणः तात्पर्यवशात् तृतीयभङ्गजबोधे भासते । तादृशधर्मलक्षणविषयभेदत' एवाऽऽद्यद्वितीयभङ्गाभ्यां तज्जन्यबोधाभ्यां च भेदः तृतीयभङ्गस्य तज्जन्यबोधस्य च । इयमेव नीतिः तुर्यादिभङ्गेष्वपीति ।
१. सप्तभिर्भङ्गैः प्रतिपाद्यमाना धर्माः सप्त । अतो विषयभेदनिबन्धन एव तेषां परस्परं भेदः । न तु - द्वौ एव धर्मों, तेषां निरूपणं सप्तधा सम्भवतीति प्रकारभेदनिबन्धना तेषां परस्परं भिन्नता ।