________________
सप्तभङ्गी
१८३
रूपेणाऽस्तित्वं-तथा सति घटस्याऽपि जलीयत्वम्, करकादेरपि पार्थिवत्वमिति सर्वस्य सर्वात्मकत्वं प्रसज्येतेत्याशयः ।
पाटलिपुत्रकादिग्रामस्थितस्य घटादेः तत्तत्क्षेत्रेण सहाऽऽधाराधेयभावानुरोधात् कथञ्चित् तत्तत्क्षेत्रेण सह तादात्म्यमभ्युपेयं-कथञ्चित्तादात्म्यस्य कथञ्चित्सर्वसम्बन्धव्यापकत्वात् । यतो विशिष्टबुद्धिनियामकत्वं सम्बन्धत्वम् । येन च विशिष्टबुद्धिर्न भवति स सम्बन्ध एव न भवति । विशिष्टबुद्धिश्च विशिष्टात्मकविषये सत्येव भवितुमर्हति । विशिष्टश्च विषयो विशेषणविशेष्याभ्यां कथञ्चिदभिन्न एव-अतिरिक्तत्वे दण्डविशिष्टपुरुष-क्षेत्रविशिष्टपुरुषादीनां विशिष्टरूपाणां विशेषणविशेष्याभ्यां भिन्नत्वाविशेषाद्, अन्यस्य विशेषकस्याऽभावात् परस्परवैलक्षण्यं न भवेदिति । तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेन विशेषणाभिन्नविशिष्टस्वरूपाभिन्नस्य विशेष्यस्य विशेषणाभिन्नत्वमिति भवति सम्बन्धमात्रव्यापकं कथञ्चित्तादात्म्यम् । तथा च पाटलिपुत्रग्रामस्थितस्य घटादेराधाराधेयभावलक्षणसम्बन्धबलात् कथञ्चिदभेदे व्यवस्थिते, क्षेत्रतः पाटलिपुत्रकादित्वेन घटादेरस्तित्वम् । एवं तत्तद्ग्रामदेशादिस्थितस्य तत्तद्ग्रामदेशादित्वेनाऽस्तित्वम् । स्वानाधारक्षेत्रकान्यकुब्जादित्वेन तु अस्तित्वं न सम्भवति-तेन रूपेणाऽप्यस्तित्वे घटादीनां सर्वेषां सर्वदेशव्यापित्वं प्रसज्येतेति प्रतिनियतक्षेत्राधारता भज्येतेति ।
यस्मिन् काले यद् भवति तस्य तत्कालेन सह 'जन्यजनकभावलक्षणसम्बन्धविशेषलाभाद् विशिष्टबुद्ध्याधानक्षमात् कथञ्चित्तादात्म्यमिति शैशिरादिकालसमुद्भूतस्य घटादेः शैशिरादित्वेनाऽस्तित्वम्, न तु वासन्तिकादित्वेन-तेन रूपेणाऽप्यस्तित्वे सर्वस्य घटादेः सर्वकालात्मना भावात् सदातनत्वं प्रसज्येतेति प्रतिनियतकालनिबन्धनकादाचित्कत्वं भज्येतेति ।
पदार्थो घटादिः श्यामादिभावमापन्नः, तदानीं तस्य श्यामादिभावेन सह सम्बन्धविशेषबलात् कथञ्चित्तादात्म्यमिति श्यामादित्वेन घटादेरस्तित्वम्, न तु रक्तादित्वेनतद्रूपेणाऽप्यस्तित्वे सर्वस्य घटादेः सर्वस्वभावतापत्तिरिति प्रतिनियतस्वभावभङ्गात् प्रतिनियतस्वभावनिमित्तकविविधप्रतिनियतस्वभावव्यवहारस्य भङ्गः स्यादिति ।
द्वितीयभङ्गं निरूपयतिएवं 'स्यान्नास्त्येव सर्व मिति प्राधान्येन निषेधकल्पनया द्वितीयः ।
प्रथमभङ्गेऽस्तित्वादिविधिरूपधर्मस्य प्राधान्यविवक्षा, तेन नास्तित्वादिरूपनिषेधधर्मस्य गौणतयैव तत्र प्रतिभासनम् । न तु प्रथमभङ्गजन्यबोधे निषेधस्य सर्वथाऽप्रतिभासनमेक्-तथा सत्येकधर्मैकान्तावबोधकत्वेन दुर्नयवाक्यत्वं प्रसज्येतेत्येवं सति तत्समुदायस्वभाव१. वस्तुतोऽत्र क्षेत्रवदाधाराधेयभावलक्षणसम्बन्ध एव ग्राह्यः ।