________________
१८२
सटीकजैनतर्कभाषायां धर्ममाश्रित्य, सप्तविधधर्माणां-सप्तसङ्ख्यकधर्माणाम् । यथा घटेऽस्तित्वरूपधर्ममाश्रित्य कथञ्चिदस्तित्व-कथञ्चिन्नास्तित्व-क्रमार्पितकथञ्चिदस्तित्वकथञ्चिन्नास्तित्व-युगपदर्पितकथञ्चिदस्तित्वकथञ्चिन्नास्तित्वात्मकावक्तव्यत्व-कथञ्चिदस्तित्वे सति कथञ्चिदवक्तव्यत्वकथञ्चिन्नास्तित्वे सति कथञ्चिदवक्तव्यत्व-कथञ्चिदस्तित्वे सति कथञ्चिन्नास्तित्वे सति कथञ्चिदवक्तव्यत्वेत्येवंरूपाणां सप्तविधधर्माणां सम्भवात् । एतावतैकधर्ममाश्रित्य निरुक्तसप्तविधधर्मव्यतिरिक्तधर्मासम्भवाद् अष्टविधसंशयजिज्ञासाप्रश्नाद्यसम्भवेन नाऽष्टभङ्ग्यादिसम्भव इत्यावेदितम् ।
सप्तविधसंशयोत्थापितेति । प्रदर्शितधर्मरूपविषयाणां सप्तविधत्वात् तद्विषयकाणां संशयानामपि सप्तविधत्वम्, तेषां सप्तविधत्वात् तत्कारणिकानां जिज्ञासानां सप्तविधत्वम्, तासां सप्तविधत्वात् तन्मूलकानां सप्तविषयकप्रश्नानां सप्तविधत्वम्, तेषां सप्तविधत्वे तदुत्तररूपाणां भङ्गानामपि सप्तविधत्वमित्युपपद्यतेतरां सप्तभङ्गीत्यर्थः ।
तत्र प्रथमभङ्गमुपदर्शयति- तत्र स्यादत्स्येव सर्वमिति प्राधान्येन विधिकल्पनया प्रथमो भङ्गः । स्यात्कथञ्चित् स्वद्रव्यक्षेत्रकालभावापेक्षयेत्यर्थः । अस्ति हि घटादिकं-द्रव्यतः पार्थिवादित्वेन, न जलादित्वेन, क्षेत्रतः पाटलिपुत्रकादित्वेन, न कान्यकुब्जादित्वेन, कालतः शैशिरादित्वेन, न वासन्तिकादित्वेन, भावतः श्यामादित्वेन, न रक्तादित्वेनेति ।
तत्र-तेषु सप्तधा वाक्प्रयोगेषु । सर्वत्वेन सर्वं धर्मीकृत्याऽस्तित्वरूपमेकं धर्ममाश्रित्य भङ्गप्रदर्शने कृते, प्रत्येकं घटत्वादिधर्मेण घटदौ धर्मिण्यस्तित्वादिप्रतिपादकभङ्गप्रयोगावगमोऽनायासेनैव प्रतिपाद्यानां सम्भवतीत्यभिप्रायेण सर्वं धर्मीकृत्याऽऽद्यभङ्गाकारमुल्लिखतिस्यादस्त्येवेति । तद्घटक 'स्यात् पदार्थं दर्शयति-स्यादिति । आख्यातप्रतिरूपकमनेकान्तप्रतिपादकमव्ययम्', तेन तदर्थः-कथञ्चिदिति । एतदपि सामान्योक्तं नाऽविरोध (न विरोध ?) भञ्जकावच्छेदकभेदप्रेतिपत्तिमाधातुमलमित्यभिसन्धायाऽऽह-स्वद्रव्येति ।
सर्वात्मकधर्म्यन्तरगते घटदिधर्मिण्यस्तित्वं स्वद्रव्याद्यपेक्षया सङ्गमयति-अस्तीति । हि-यतः । घटादिकं द्रव्यतो यद् अस्ति, तत् पार्थिवादिद्रव्यमाश्रित्य । घटस्य मृद्विकारतया पार्थिवत्वेनैवाऽस्तित्वम्, करकादेर्जलविकारतया जलत्वेनैवाऽस्तित्वम्, एवमन्येषामपि स्वोपादानभूतद्रव्यरूपेणैवाऽस्तित्वम्, न तु घटस्य जलात्मना, करकादेर्मुदात्मना परद्रव्य
१. 'स्याद्'इति नाऽऽख्यातम्, किन्तु तत्प्रतिरूपकमव्ययम्, कथनस्याऽऽपेक्षिकत्वं तेन सूच्यते । २. एकस्मिन्नेव वस्तुनि सत्त्वासत्त्वयोविरोध एकावच्छेदेनैव, न त्ववच्छेदकभेदेन ।