________________
सप्तभङ्गी
१८१ परिपूर्णार्थप्रापकत्वमेवेति वास्तविकप्रामाण्यमेवेति साम्प्रतम्-काकतालीयन्यायेन परिपूर्णार्थप्राप्तावपि तस्य परिपूर्णार्थप्रापकत्वाभावात् । नहि वाक्यं पुरुषं हस्ते गृहीत्वाऽर्थं प्रापयति, किन्तु ज्ञानजननाद् अर्थं तूपदर्शयत् प्रवर्तकत्वतोऽर्थप्रापकं भवति । लौकिकवाक्यं तु अपरिपूर्णमेवाऽर्थं ज्ञापयतीत्यपरिपूर्णार्थप्रापकत्वमेव तस्य । अर्थस्त्वनन्तधर्मात्मको नैकधर्मवानेव लभ्य इत्यतोऽर्थबलात् परिपूर्णार्थलाभो, न तु लौकिकवाक्यप्रभवज्ञानादिति हृदयम् ।
ननु वयं सप्तभङ्गीमेव नाऽवगच्छामः, कथमागमप्रमाणस्य तदनुसारित्वं जानीम इत्याशयेन पृच्छति
केयं सप्तभङ्गीति चेदुच्यते-एकत्र वस्तुनि एकैकधर्मपर्यनुयोगवशाद् अविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी।
इयम्-आगमप्रमाणानुगम्यतयाऽनन्तरम् । एकत्रेत्यादि लक्षणम्, सप्तभङ्गीति लक्ष्यम् ।
लक्षणगमनं त्वेवं-घटरूपे एकस्मिन् धर्मिण्यनन्तधर्मात्मके एकैकधर्मस्य अस्तित्वादिप्रत्येकधर्मस्य, यः पर्यनुयोगः-प्रश्न: 'घटः किमस्ती'त्यादिस्वरूपः, तद्वशाद्-उत्तराहे प्रश्ने सति तदुत्तरमवश्यमेव देयमिति प्रश्नोत्तरयोः पूर्वापरभावनियमविशेषलक्षणाङ्गाङ्गिभावबलात् । अविरोधेन-स्वद्रव्यक्षेत्रकालभावापेक्षयाऽस्तित्वम्, परद्रव्यक्षेत्रकालभावापेक्षया नास्तित्वमित्येवं विरोधपरिहारेण, अवच्छेदकभेदेनेति यावत् । व्यस्तयोः अन्योन्यासङ्घटितयोः, पृथग्भूतयोरिति यावत्, समस्तयोश्च-अन्योन्यसङ्घटितमूर्तिकयोश्च, विशेषणविशेष्यभावेनैकविशिष्टधर्मरूपतां प्राप्तयोरिति यावत् । विधिनिषेधयो:=भावाभावयोरस्तित्वनास्तित्वयोः, कल्पनया अवमर्शेन, स्यात्काराङ्कितः स्यादित्येवंस्वरूपपदघटितः, सप्तधा-सप्तप्रकारः, वाक्यप्रयोगः वाक्याभिलापः, सप्तभङ्गी-सप्तभङ्गसमाहारः । एवकाराङ्कितत्वमपि ज्ञेयम् ।
तथा च १. स्यादस्त्येव घटः २. स्यान्नास्त्येव घटः ३. स्यादस्त्येव स्यान्नास्त्येव च घटः ४. स्यादवक्तव्य एव घटः ५. स्यादस्त्येव स्यादवक्तव्य एव च घटः ६. स्यान्नास्त्येव स्यादवक्तव्य एव च घटः ७. स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव च घटः-इति सप्तभङ्गसमुदायात्मकमहावाक्यस्वरूपा सप्तभङ्गीत्यर्थः ।
कथं सप्तभङ्ग्येव भवति, नाऽष्टभङ्गीनवभङ्ग्यादिकमित्यपेक्षायामाह
इयं च सप्तभङ्गी वस्तुनि प्रतिपर्यायं सप्तविधधर्माणां सम्भवात् सप्तविधसंशयोस्थापितसप्तविधजिज्ञासामूलसप्तविधप्रश्नानुरोधादुपपद्यते ।
वस्तुनि अनन्तधर्मात्मके घटादिस्वरूपैकैकवस्तुनि, प्रतिपर्यायम् अस्तित्वाद्येकैक