________________
१८०
सटीकजैनतर्कभाषायां सम्बध्यते । सप्तभङ्गी-सप्तानां भङ्गानां समाहारः-सप्तभङ्गी, ताम् । भङ्गाश्च सप्त अग्रे प्रदर्शयिष्यन्ते । अनुगच्छति-अनुसरति, सप्तभङ्गीरूपतामात्मसात्कुर्वत् सद् आगमप्रमाणं स्वार्थ प्रतिपादयतीत्यर्थः ।
पुरुषविशेष प्रतिपाद्यमाश्रित्य यत्र 'स्यादस्त्येव घट' इत्याद्येकभङ्गोपन्यासः, तत्र प्रतिपाद्यव्युत्पन्नमतिः स्याद्वादसंस्कारमाहात्म्यात् स्वयमेव भङ्गान्तराण्यनुस्मृत्योक्तेनैकभङ्गेन सहानुस्मृतानां भङ्गान्तराणामेकवाक्यतामभिनीय सप्तभङ्गीस्वरूपतापन्नमहावाक्यत एव परिपूर्णमर्थमवगच्छतीत्याह
क्वचिदेकभङ्गदर्शनेऽपि व्युत्पन्नमतीनामितरभङ्गाक्षेपध्रौव्यात् । तदुक्तं महावादिना सम्मतौ
"पुरिसजातं तु पडुच्च, जाणओ पन्नवेज्ज अन्नयरं ।
परिकम्मणानिमित्तं, ठाएहि सो विसेसं पि ॥" (१.५४) अस्या गाथाया अयमर्थः-पुरुषजातं-प्रतिपन्नद्रव्यपर्यायान्यतरस्वरूपं श्रोतारं प्रतीत्यआश्रित्य, ज्ञक:(प्रज्ञापकः) स्याद्वादविद्, प्रज्ञापयेद् अन्यतरदज्ञातम्, परिकर्मनिमित्तम्= अज्ञातांशसंस्कारपाटवार्थम्, ततः परिकर्मितमतये स्थापयिष्यत्यसौ स्याद्वादविशेषमपि परस्पराविनिर्भागरूपमिति ।
___ यद्यपि नयानधिकृत्येयं गाथा दर्शिता, तथाप्यर्थेष्वपि तद्विषयेषु योजयितुं शक्यैव । यस्य प्रतिपाद्यस्य स्याद्वादसंस्कारो नाऽस्ति, तस्यैकभङ्गोपदर्शनेन परिकर्मितमत्याधानतः स्याद्वादसंस्कारो भवति, तं प्रत्युत्तरकालं ज्ञकेन भङ्गान्तरोपदर्शनेऽपि, यस्य प्रथमत एव परिकर्मितमतिता, तस्य तत उद्बुद्धस्याद्वादसंस्कारबलात् स्वयमेव भङ्गान्तराणामूहनमिति विशेष इति बोध्यम् ।
यत्र वाक्ये सप्तभङ्गीसंस्पर्शोऽपि नाऽस्ति, तत्र लौकिकवाक्ये लोकापेक्षयैव प्रामाण्यम्, न तु वस्तुत इत्याह
यत्र तु 'घटोऽस्ती'त्यादि लौकिकवाक्ये सप्तभङ्गीसंस्पर्शशून्यता, तत्राऽर्थप्रापकत्वमात्रेण लोकापेक्षया प्रामाण्येऽपि तत्त्वतो न प्रामाण्यमिति द्रष्टव्यम् ।
__ अर्थप्रापकत्वं वाक्ये परम्परया तज्जन्यतद्विषयकज्ञानात् तद्विषयकप्रवृत्तौ तदर्थावाप्तिः । 'अत्र गृहे घटोऽस्ती'ति लौकिकवाक्यादपि गृहवृत्तितया घटविषयकज्ञाने जाते घटगोचरप्रवृत्ती सत्यां घटरूपार्थप्राप्तिर्भवतीत्यर्थप्रापकत्वम्, तावता लोकापेक्षया प्रामाण्यमस्य, लोकैः तत्र 'इदं प्रमाण मिति व्यवहारस्य प्रवर्तनात् । न च तत्रापि परिपूर्णार्थप्राप्तिरेव भवतीति तद्वाक्यस्याऽपि