________________
आगमप्रमाणम्
१७९
तद्वचनम् । वर्णोऽकारादिः पौद्गलिकः । पदं सङ्केतवत् । अन्योन्यापेक्षाणां पदानां
I
समुदायो वाक्यम् ।
योऽर्थो यद्रूपेण व्यवस्थितः, तमर्थं तद्रूपेणैव ज्ञात्वा य उपदिशति, तथोपदेशे प्रवीणः समर्थः स आप्त इत्यर्थः । तद्वचनम्=आप्तवचनम् ।
=
वर्णस्याऽऽकाशगुणत्वं नैयायिक आह । नित्यव्यापकद्रव्यरूपत्वं मीमांसकः स्वीकरोति । आहङ्कारिकत्वं साङ्ख्यो वक्ति । तदेतद्विभिन्नवादिमतनिरासायाऽऽहवर्णोऽकारादिः पौलिकः । प्रतिहन्यमानत्व - वायुनीयमानत्वद्वारतोऽनुमानादिना पौद्गलिकत्वं वर्णानां सुव्यवस्थितम् ।
एकस्याऽप्यकारोकारमकारादेर्विष्णुशङ्करब्रह्मादौ सङ्केतितत्वेन, तत्तदर्थवाचकत्वेन यद् अस्य सम्बन्धाद्, एकस्मिन् आनुपूर्वीविशेषाभावाद्, आनुपूर्वीविशेषमद्वर्णत्वस्य पदलक्षणत्वं परित्यज्य सङ्केतवत्त्वं पदत्वमित्येव स्वीकर्त्तव्यमित्याशयेनाऽऽह - पदं सङ्केत्तवदिति । 'अस्मात् पदादयमर्थो बोद्धव्य' इति 'इदं पदममुमर्थं बोधयत्विति वेच्छा सङ्केतः । नत्वीश्वरीयत्वमपि तत्र निवेशनीयं-गौरवात्, ईश्वरानङ्गीकर्तृमतेऽपि पदस्य सङ्केतसम्भवात्, आधुनिकसङ्केतितत्वेऽपि पदत्वव्यवहाराच्चेति बोध्यम् ।
साकाङ्क्षपदसमुदायस्यैव वाक्यत्वम्, न तु निराकाङ्क्षपदसमूहस्य विशिष्टार्थानवबोधकस्य वाक्यत्वं युक्तमित्याशयेन वाक्यलक्षणमुपदर्शयति-अन्योन्येति । क्रियापदं कर्मबोधकपदमाकाङ्क्षति - आनयेत्युक्ते किमित्याकाङ्क्षणात् । तथा कर्मपदं क्रियाविशेषबोधमाकाङ्क्षति - गामित्युक्ते 'किमानय किं वा नये'ति क्रियाविशेषकाङ्क्षादर्शनादित्येवं सर्वत्र ज्ञेयम् । तथा च विशिष्टार्थबोधे जनयितव्ये पदानां परस्परमपेक्षाऽस्त्येव, अन्यथैकस्मादपि पदाद् विशिष्टार्थबोध उत्पद्येतेति बोध्यम् ।
आगमस्य सप्तभङ्ग्यनुगमे सत्येव प्रामाण्यं - तथा सत्येव परिपूर्णार्थज्ञापकत्वात्, अन्यथा परिपूर्णार्थप्रापकत्वाभावे तात्त्विकप्रामाण्यासम्भवादित्याह
तदिदमागमप्रमाणं सर्वत्र विधिप्रतिषेधाभ्यां स्वार्थमभिदधानं सप्तभङ्गीमनुगच्छति तथैव परिपूर्णार्थप्रापकत्वलक्षणतात्त्विकप्रामाण्यनिर्वाहात् ।
सर्वत्र=सत्त्वादिधर्ममात्रोपदर्शने । विधिप्रतिषेधाभ्यामिति । भावो विधिः, अभावः प्रतिषेधः, यस्य यत्र विधानं तस्यैव तत्राऽभावः प्रतिषेधः, यथा 'अयं सन्' इति पुरोवर्तिनि सत्त्वस्य विधानम्, तत्र पुरोवर्त्तिनि 'नाऽयं सन्' इति सत्त्वस्यैवाऽभावः, एवं नित्यत्वादेरपि, ताभ्यामित्यर्थः । स्वार्थं स्वप्रतिपाद्यम्, अभिदधानम् - प्रतिपादयत् सत्, आगमप्रमाणमिति