________________
१७८
सटीकजैनतर्कभाषायां माप्तेति विशेषणम् । अनेन च विशेषणेन 'पुरुषाणां भ्रमप्रमादविप्रलिप्साकरणापाटवादिदोषस्याऽवश्यम्भावाद् वेदस्य पुरुषप्रणीतत्वे कारणदोषनिबन्धनदोषसम्भवतः प्रामाण्यं न स्यादित्यपौरुषेयो वेदः प्रमाण मिति मीमांसकमतस्य निरासः कृतः-अपगताशेषरागादिदोषस्य तीर्थकरादेः पुरुषविशेषस्याऽऽप्तस्य सम्भवेन, तद्वचनस्य निर्दुष्टस्य यथार्थसंवेदनकारणस्य सम्भवात् । प्रतिनियतताल्वादिस्थानकस्य पौद्गलिकस्याऽकारादिवर्णस्यैवाऽनित्यत्वेन तदानुपूर्वीविशेषवतां पदानां तत्समुदायात्मकवाक्यसन्दर्भविशेषरूपस्य वेदस्याऽनित्यत्वस्यैव प्राप्तेरपौरुषेयत्वासम्भवः । 'उत्पन्नो वर्णो विनष्टो वर्ण' इत्यादिप्रतीतिबाधात् 'सोऽय'मित्यादि प्रत्यभिज्ञा नैकान्ताभेदलम्बना, किन्तु साजात्यावलम्बनैवेति ।
ननु "एते पदार्था-मिथः संसर्गवन्तः-आकाङ्क्षादिमत्पदस्मारितत्वाद्-'दण्डेन गामभ्याजेते'तिवाक्योपस्थापितपदार्थकदम्बकव"दिति "एतानि पदानि-तात्पर्यविषयपदार्थसंसर्गज्ञानपूर्वकानि आकाङ्क्षादिमत्पदकदम्बकत्वाद्-'गामानये'त्यादिपदकदम्बव"दिति वाऽनुमानस्याऽत्र सम्भव इत्यनुमानप्रमाणे एवाऽन्तर्भाव आगमप्रमाणस्येति वैशेषिकमतमाशङ्ग्य प्रतिक्षिपति
न च व्याप्तिग्रहणबलेनाऽर्थप्रतिपादकत्वाद् धूमवदस्याऽनुमानेऽन्तर्भावःकूटाकूटकार्षापणनिरूपणप्रवणप्रत्यक्षवदभ्यासदशायां व्याप्तिग्रहनैरपेक्ष्येणैवाऽस्याऽर्थबोधकत्वात् ।
अस्य-आगमस्य । अनभ्यासदशायां निरुक्तसाध्यसाधनादिकल्पनातः तदविनाभावग्राहितर्कप्रमाणतोऽत्राऽनुमानावतारसम्भवेऽप्यभ्यासदशायां निरुक्तसाध्यसाधनाविनाभावप्रतिसन्धानं विनाऽपि शब्दाद् विशिष्टार्थबोधनस्य वाच्यवाचकभावलक्षणसम्बन्धग्रहणबलादर्थोपस्थितिद्वारा जायमानत्वेनाऽनुमानादस्य पार्थक्यादिति प्रतिक्षेपहेतुमुपन्यस्यति-कूटेति । कूटं मिथ्या, तद्भिन्नमकूटं सत्यम् । कार्षापणं=षोडशपणमूल्यकराजतमुद्राविशेषः । पूर्वमिदं सत्यं कार्षापणमिदं मिथ्याकार्षापण मिति तदर्शनमात्राद् न प्रत्यक्षतोऽवधारयति पुरुषः, तदानीं तज्ज्ञानं लिङ्गविशेषेण कार्षापणाविनाभूतेन यद्यपि तस्य भवति, परमभ्यासदशाया'मिदं सत्यमिदं मिथ्याकार्षापण मिति प्रत्यक्षात्मकज्ञानमविनाभूतलिङ्गविशेषग्रहणमन्तरेणैव जायते, तद्वत् शब्दादप्यर्थबोधोऽभ्यासदशायां जायते इति व्याप्तिग्रहनैरपेक्ष्येणैवाऽर्थबोधकत्वादागमस्याऽनुमानात् पार्थक्यमित्यर्थः ।
आप्तः कः, तद्वचनं किमित्यपेक्षायामाहयथास्थितार्थपरिज्ञानपूर्वकहितोपदेशप्रवीण आप्तः । वर्णपदवाक्यात्मकं