________________
आगमप्रमाणम्
१७७ वा तत्प्राप्तये राजसेवावाणिज्याद्यायासेनाऽऽत्मानमायासयेदिति न तदुत्पत्तिलक्षणोऽपि तयोः सम्बन्धः । तदुभयभिन्नस्तु सम्बन्धो नाऽर्थप्रतिबन्धनिबन्धनम् । तत एव न सङ्केतात्मा सम्बन्धो नैयायिकपरिकल्पितो युक्तः । तस्य सम्बन्धत्वे-यथाऽयं शब्दोऽमुम) बोधयत्विति सङ्केतकरणात् शब्दोऽर्थस्य वाचकः, शब्दवाच्यस्त्वर्थः, तथाऽयमर्थोऽमुं शब्दं बोधयत्विति सङ्केतकरणस्याऽपि सम्भवेनाऽर्थः शब्दस्य वाचकः, शब्दोऽर्थस्य वाच्य इति-वाच्यवाचकपरिवर्तनमपि भवेत् । एवं शब्दार्थक्षणयोः क्षणभङ्गरत्वात् तत्सन्तानयोऽश्चाऽवास्तविकत्वाद् यः शब्दो यदोत्पन्नः तदनन्तरमेव विनश्यति, नाऽर्थकालमनुधावति, अर्थोऽपि स्वोत्पत्त्यनन्तरमेव विनश्यति, न शब्दोत्पत्तिकालं यावत् तिष्ठतीति विभिन्नकालीनयोः तयोः न सङ्केतः कर्तुं शक्यः । समानकालीनयोरपि 'न तत्स्वरूपमविज्ञायैव तत्र सङ्केतकरण मिति तत्स्वरूपज्ञानावश्यकत्वे, ज्ञानकाले तदुभयोरपि विनाशाद्, निराधारसङ्केतकरणासम्भवाद् न सङ्केतः कर्तुं शक्यः । सर्वस्याऽर्थक्रियाकारित्वलक्षणसत्त्वतः क्षणिकतयैव व्यवस्थितेः, नित्यानुगतैकस्वरूपसामान्यस्याऽभावादेव तत्र सङ्केतकरणासम्भव इति शब्दार्थयोः सम्बन्धाभावाद् न शब्दोऽर्थबोधं जनयति, किन्तु विकल्पात् स्वयं जायते विकल्पं चोत्पादयति । यदुक्तं
विकल्पयोनयः शब्दा, विकल्पाः शब्दयोनयः ।
कार्यकारणता तेषां, नाऽथ शब्दाः स्पृशन्त्यपि ॥" इति बौद्धमतापकरणायोक्तमर्थसंवेदन (वचनादाविर्भूत)मिति ।
अर्थक्रियाकारित्वलक्षणसत्त्वस्यैकान्तक्षणिके तथैकान्तनित्ये चाऽसम्भवात् कथञ्चित् क्षणिकाक्षणिकरूप एव शब्दोऽर्थश्च । तयोरुक्तयुक्त्या तादात्म्यतदुत्पत्त्योरसम्भवेऽपि, वाच्यवाचकभावलक्षणः, ताभ्यां कथञ्चिदभिन्नः, प्रथमं वाच्योत्पत्तौ वाच्यकालेऽशेनोत्पद्य वाचकोत्पत्तिकालेंऽशेनोत्पद्यमानस्वभावः, प्रथमं वाचकोत्पत्तौ तत्कालेंऽशेनोत्पद्य वाच्यकालेंऽशेनोत्पद्यमानस्वभावः, सकलशब्दार्थसाधारणोऽपि प्रतिनियतशब्दार्थसङ्केताभिव्यज्यमानसम्बन्धोऽस्त्येव । तबलेन शब्दादर्थसंवेदनं सम्भवत्येवेति न विकल्पयोनित्वं शब्दानां, विकल्पानां वा न शब्दयोनित्वमित्याशयः ।
ननु शब्दस्यैव लोके आगमतया प्रसिद्धः कथमस्याऽऽगमत्वमित्यत उक्तम् आप्तवचनादाविर्भूतमिति । आप्तवचनस्याऽऽगमत्वात् तत उत्पन्नेऽर्थसंवेदने कार्ये कारणोपचारमाश्रित्याऽऽगमोक्तिरविरुद्धा । अत एवाऽर्थसंवेदनस्य प्रमाणत्वात् तत्कारणे शब्दे कार्योपचारमाश्रित्याऽत्राऽप्तवचनं प्रमाणमिति व्यवहार उपपद्यते इति बोध्यम् ।
विप्रतारकाद्यनाप्तवचनसम्भूतार्थसंवेदनस्याऽऽगमप्रामाण्यं मा प्रसाङ्क्षीदित्येतदर्थ