________________
१७६
सटीकजैनतर्कभाषायां वाच्य इत्यनन्तरं सम्बन्धः ।
अकिञ्चित्कराख्यदोषस्य हेत्वाभासत्वखण्डनेन नैयायिकाभिमतस्य कालात्ययापदिष्टाख्यहेत्वाभासस्य हेत्वाभासत्वमपहस्तितं भवतीत्याह
एतेन कालात्ययापदिष्टोऽपि प्रत्युक्तो वेदितव्यः ।
एतेनेत्यस्य प्रत्युक्त इत्यनेनाऽन्वयः । प्रत्युक्तः-निरस्तः । पक्षे साध्यसन्देहकाल एव साध्यसाधनकालः, तदत्ययः तदतिक्रमः पक्षे साध्याभावप्रमाकाले साध्यसाधनम्, तस्मिन् काले बाधितसाध्यसाधनायाऽपदिष्टः प्रयुक्तो हेतुः कालात्ययापदिष्ट इत्यनेन बाधितविषय एव उक्तो भवति, तस्य निराकृतपक्षाभासाभिन्नत्वेन हेत्वाभासत्वासम्भवादित्यर्थः ।।
प्रकरणसमापरनामकसप्रतिपक्षस्याऽपि असिद्धानैकान्तिकविरुद्धबाधितभिन्नतया हेत्वाभासपञ्चमभेदत्वं नैयायिका अभ्युपगच्छन्ति । तदपि न सम्यक्-तत्रापि साध्यसाधनयोरन्यथानुपपत्तिलक्षणाविनाभावानिश्चयेनाऽसिद्धत्वस्यैव सम्भवादित्याह
प्रकरणसमोऽपि नाऽतिरिच्यते-तुल्यबल-साध्यतद्विपर्यय-साधकहेतुद्वयरूपे सत्यस्मिन् प्रकृतसाध्यसाधनयोरन्यथानुपपत्त्यनिश्चयेऽसिद्धे एवाऽन्तर्भावादिति सङ्क्षपः ।
नाऽतिरिच्यते-उक्तत्रिविधहेत्वाभासाद् न भिद्यते । अत्रैव हेतुमाह-तुल्यबलेति । यद्यपि परस्परविरुद्धसाधकयोः स्थापना-प्रतिस्थापनाहेत्वोरेकस्याऽवश्यमेव पराभिमतव्याप्तिपक्षधर्मतावत्त्वलक्षणस्याऽभावः, तथापि तत्काले वादिप्रतिवादिभ्यां-'स्वपक्षप्रतिपक्षहेतौ तद् न जानाति, तज्ज्ञाने तमेव नोद्भावये'दिति-वस्तुतः तुल्यबलत्वाभावेऽपि तुल्यबलतया ज्ञातेत्यर्थः । तद्विपर्ययेति । स्वसाध्यविरुद्धसाध्याभावलक्षणसाध्येत्यर्थः । अस्मिन्प्रकरणसमे।
___ आगमप्रमाणनिरूपणम् आगमप्रमाणं निरूपयतिआप्तवचनादाविर्भूतमर्थसंवेदनमागमः ।
अत्र आगम इति लक्ष्यनिर्देशः, आप्तेत्यादि लक्षणनिर्देशः । नैयायिकैः शब्दलक्षणागमस्य प्रामाण्यं परिकल्पितम्, तच्चाऽयुक्तं-जडस्य तस्य ज्ञानत्वाभावेन ज्ञानविशेषत्वात्मकप्रमाणत्वस्याऽप्ययोगादिति लक्षणेऽर्थसंवेदनमित्युक्तम् ।
"अग्न्यादिशब्दोच्चारणे मुखदाहप्रसङ्गाद् न शब्दार्थयोः तादात्म्यलक्षणसम्बन्धः । सुवर्णद्रव्यादिशब्दोच्चारणमात्रत एव सुवर्णादिधनलाभसिद्धेः, न कोऽपि जगति दरिद्रः स्याद् न